Lord Vishnu

बाल रक्षा (भागवत पुराण)

(Bala Raksha Stotram (Bhagavata Purana))

From Bhagavata Purana

Found within the tenth canto of the Bhagavata Purana, this sacred hymn is a protective armor recited by Garga Muni for the divine protection of Lord Krishna and Balarama. The stotram invokes various forms and weapons of Lord Vishnu to guard every limb and direction surrounding the child. It is profoundly significant for parents seeking divine safety, health, and spiritual growth for their children. Chanting this powerful prayer is believed to shield the young from malevolent forces, instill fearlessness, and invoke the constant presence of the Supreme Lord as a perpetual guardian in the child's life.

श्री गणेशाय नमः ।

अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ 1 ॥
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ 2 ॥
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ 3 ॥
पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ 4 ॥
व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः ।
भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ 5 ॥
डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ।
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ 6 ॥
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ 7 ॥
स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ।
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ 8 ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा समाप्ता ॥

Explore More