Lord Surya

सूर्याष्टकम्

(Suryashtakam)

From Samba Purana

The Suryashtakam is a powerful octet composed in praise of Lord Surya, the celestial embodiment of divine light and life-force. Originating from the Samba Purana, this sacred hymn honors the Sun God as the dispeller of darkness and the bestower of health and vitality. Devotees chant these verses to seek the blessings of the Sun to overcome physical ailments, gain wisdom, and achieve inner radiance. Regular recitation is believed to purify the mind, cultivate spiritual discipline, and protect the practitioner from negative influences, thereby fostering success, longevity, and overall prosperity through the grace of the solar deity.

शाम्ब उवाच

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ 1 ॥
सप्ताश्व रथ मारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥
लोहितं रथमारूढं सर्व लोक पितामहम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 3॥
त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 4 ॥
बृंहितं तेजसां पुञ्जं [तेजपूज्यं च] वायु माकाश मेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥
बन्धूक पुष्पसङ्काशं हार कुण्डल भूषितम् ।
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 6 ॥
विश्वेशं विश्व कर्तारं महातेजः प्रदीपनम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 7 ॥
तं सूर्यं जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 8 ॥
फलशृति
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥
आमिषं मधुपानं च यः करोति रवेर्धिने ।
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता ॥
स्त्री तैल मधु मांसानि ये त्यजन्ति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्यलोकं स गच्छति ॥
इति श्री शिवप्रोक्तं श्री सूर्याष्टकं सम्पूर्णम् ॥

Explore More