Lord Venkateswara

श्री वेङ्कटेश्वर शरणागति स्तोत्रम् (सप्तर्षि कृतम्)

(Sri Venkateswara Sharanagati Stotram (Saptarishi Kritam))

From Saptarishi

This sacred hymn is attributed to the seven great sages, or Saptarishis, who sought refuge at the holy hills of Seshachalam. Dedicated to Lord Venkateswara, the eternal consort of Goddess Lakshmi and the supreme protector of the Kali Yuga, this Stotram serves as a powerful instrument of surrender. By chanting these verses with devotion, a seeker invites the grace of Lord Vishnu, who is pleased by the power of the sages' words. It is believed to cleanse the mind of worldly burdens and bestow divine peace, spiritual liberation, and the constant protection of the Lord of Seven Hills.

शेषाचलं समासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ 1 ॥
कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः ।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति ॥ 2 ॥
कश्यप उवाच
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे ॥ 3 ॥
अत्रिरुवाच –
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते ।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः ॥ 4 ॥
भरद्वाज उवाच
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ 5 ॥
विश्वामित्र उवाच
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ 6 ॥
गौतम उवाच
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः ॥ 7 ॥
जमदग्निरुवाच –
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः ।
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ 8 ॥
वसिष्ठ उवाच
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत् ।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा ॥ 9 ॥
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः ।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत् ॥ 10 ॥
इति सप्तर्षिभिः कृतं श्री वेङ्कटेश्वर शरणागति स्तोत्रम् ।

Explore More