Lord Veerabhadra

श्री वीरभद्राष्टोत्तर शत नामावलिः

(Shri Veerabhadrashtottara Shatanamavali)

Traditional

This sacred namavali consists of one hundred and eight auspicious names dedicated to Lord Veerabhadra, the fierce and powerful incarnation of Lord Shiva created from his matted hair. Representing the destruction of ego and the triumph of righteousness, Veerabhadra serves as the divine protector and destroyer of obstacles. Chanting these names with devotion is believed to imbue the practitioner with courage, inner strength, and protection against malevolent forces. Regular recitation fosters spiritual discipline, cleanses the mind of negativity, and grants the grace of the Lord to overcome life's greatest challenges and attain divine blessings.

ॐ वीरभद्राय नमः ।
ॐ महाशूराय नमः ।
ॐ रौद्राय नमः ।
ॐ रुद्रावतारकाय नमः ।
ॐ श्यामाङ्गाय नमः ।
ॐ उग्रदंष्ट्राय नमः ।
ॐ भीमनेत्राय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ ऊर्ध्वकेशाय नमः । 9
ॐ भूतनाथाय नमः ।
ॐ खड्गहस्ताय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ विश्वव्यापिने नमः ।
ॐ विश्वनाथाय नमः ।
ॐ विष्णुचक्रविभञ्जनाय नमः ।
ॐ भद्रकालीपतये नमः ।
ॐ भद्राय नमः ।
ॐ भद्राक्षाभरणान्विताय नमः । 18
ॐ भानुदन्तभिदे नमः ।
ॐ उग्राय नमः ।
ॐ भगवते नमः ।
ॐ भावगोचराय नमः ।
ॐ चण्डमूर्तये नमः ।
ॐ चतुर्बाहवे नमः
ॐ चतुराय नमः ।
ॐ चन्द्रशेखराय नमः ।
ॐ सत्यप्रतिज्ञाय नमः । 27
ॐ सर्वात्मने नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ निरामयाय नमः ।
ॐ नित्यनिष्ठितपापौघाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ भारतीनासिकच्छादाय नमः ।
ॐ भवरोगमहाभिषजे नमः ।
ॐ भक्तैकरक्षकाय नमः । 36
ॐ बलवते नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ दक्षारये नमः ।
ॐ धर्ममूर्तये नमः ।
ॐ दैत्यसङ्घभयङ्कराय नमः ।
ॐ पात्रहस्ताय नमः ।
ॐ पावकाक्षाय नमः ।
ॐ पद्मजाक्षादिवन्दिताय नमः ।
ॐ मखान्तकाय नमः । 45
ॐ महातेजसे नमः ।
ॐ महाभयनिवारणाय नमः ।
ॐ महावीराय नमः
ॐ गणाध्यक्षाय नमः ।
ॐ महाघोरनृसिंहजिते नमः ।
ॐ निश्वासमारुतोद्धूतकुलपर्वतसञ्चयाय नमः ।
ॐ दन्तनिष्पेषणारावमुखरीकृतदिक्तटाय नमः ।
ॐ पादसङ्घट्टनोद्भ्रान्तशेषशीर्षसहस्रकाय नमः ।
ॐ भानुकोटिप्रभाभास्वन्मणिकुण्डलमण्डिताय नमः । 54
ॐ शेषभूषाय नमः ।
ॐ चर्मवाससे नमः ।
ॐ चारुहस्तोज्ज्वलत्तनवे नमः ।
ॐ उपेन्द्रेन्द्रयमादिदेवानामङ्गरक्षकाय नमः ।
ॐ पट्टिसप्रासपरशुगदाद्यायुधशोभिताय नमः ।
ॐ ब्रह्मादिदेवदुष्प्रेक्ष्यप्रभाशुम्भत्किरीटधृते नमः ।
ॐ कूष्माण्डग्रहभेतालमारीगणविभञ्जनाय नमः ।
ॐ क्रीडाकन्दुकिताजाण्डभाण्डकोटीविराजिताय नमः ।
ॐ शरणागतवैकुण्ठब्रह्मेन्द्रामररक्षकाय नमः । 63
ॐ योगीन्द्रहृत्पयोजातमहाभास्करमण्डलाय नमः ।
ॐ सर्वदेवशिरोरत्नसङ्घृष्टमणिपादुकाय नमः ।
ॐ ग्रैवेयहारकेयूरकाञ्चीकटकभूषिताय नमः ।
ॐ वागतीताय नमः ।
ॐ दक्षहराय नमः ।
ॐ वह्निजिह्वानिकृन्तनाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः । 72
ॐ भयाह्वयाय नमः ।
ॐ भक्तलोकाराति तीक्ष्णविलोचनाय नमः ।
ॐ कारुण्याक्षाय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ गर्वितासुरदर्पहृते नमः ।
ॐ सम्पत्कराय नमः ।
ॐ सदानन्दाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ।
ॐ नूपुरालङ्कृतपदाय नमः । 81
ॐ व्यालयज्ञोपवीतकाय नमः ।
ॐ भगनेत्रहराय नमः ।
ॐ दीर्घबाहवे नमः ।
ॐ बन्धविमोचकाय नमः ।
ॐ तेजोमयाय नमः ।
ॐ कवचाय नमः ।
ॐ भृगुश्मश्रुविलुम्पकाय नमः ।
ॐ यज्ञपूरुषशीर्षघ्नाय नमः ।
ॐ यज्ञारण्यदवानलाय नमः । 90
ॐ भक्तैकवत्सलाय नमः ।
ॐ भगवते नमः ।
ॐ सुलभाय नमः ।
ॐ शाश्वताय नमः ।
ॐ निधये नमः ।
ॐ सर्वसिद्धिकराय नमः ।
ॐ दान्ताय नमः ।
ॐ सकलागमशोभिताय नमः ।
ॐ भुक्तिमुक्तिप्रदाय नमः । 99
ॐ देवाय नमः ।
ॐ सर्वव्याधिनिवारकाय नमः ।
ॐ अकालमृत्युसंहर्त्रे नमः ।
ॐ कालमृत्युभयङ्कराय नमः ।
ॐ ग्रहाकर्षणनिर्बन्धमारणोच्चाटनप्रियाय नमः ।
ॐ परतन्त्रविनिर्बन्धाय नमः ।
ॐ परमात्मने नमः ।
ॐ परात्पराय नमः ।
ॐ स्वमन्त्रयन्त्रतन्त्राघपरिपालनतत्पराय नमः । 108
ॐ पूजकश्रेष्ठशीघ्रवरप्रदाय नमः ।
इति श्री वीरभद्राष्टोत्तरशतनामावलिः ।

Explore More