Sage Vyasa

श्री वेद व्यास स्तुति

(Shri Veda Vyasa Stuti)

From Puranic Tradition

Shri Veda Vyasa Stuti is a reverent compilation of verses honoring Veda Vyasa, the legendary sage revered as an incarnation of Lord Vishnu and the compiler of the Vedas. These verses pay homage to his noble lineage, tracing his ancestry back to the sage Vashistha. By chanting this stuti, devotees seek the blessings of the Adi Guru to attain profound wisdom, clarity of intellect, and deep spiritual insight. It is considered an essential prayer for students and spiritual seekers to invoke the grace of Vyasa, ensuring success in their quest for knowledge and mastery of the scriptures.

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 1
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 2
कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ 3
वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ 4
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुः भगवान् बादरायणः ॥ 5
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ 6
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ 7
व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः ।
चिरञ्जीवी दीर्घमायुर्ददातु जटिलो मम ॥ 8
प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः ।
कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ 9
जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः ।
कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ 10
भारतस्य विधाता च द्वितीय इव यो हरिः ।
हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥ 11
जयति पराशरसूनुः सत्यवती हृदयनन्दनो व्यासः ।
यस्यास्य कमलगलितं भारतममृतं जगत्पिबति ॥ 12
वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे सत्यवत्यभिव्यक्ति मते ॥ 13
वेदान्तवाक्यकुसुमानि समानि चारु
जग्रन्थ सूत्रनिचयेन मनोहरेण ।
मोक्षार्थिलोकहितकामनया मुनिर्यः
तं बादरायणमहं प्रणमामि भक्त्या ॥ 14
इति श्री वेदव्यास स्तुतिः ।

Explore More