Lord Surya

श्री सूर्योपनिषद्

(Shri Suryopanishad)

From Atharva Veda

The Suryopanishad is a sacred Vedic text belonging to the Atharva Veda, dedicated to Lord Surya, the supreme solar deity. It delineates the profound metaphysical nature of the Sun as the source of all existence, consciousness, and cosmic energy. The text includes specific mantras and the worship of the Sun as the ultimate Brahman. Regular chanting of this Upanishad is believed to grant spiritual illumination, mental clarity, physical vitality, and protection from ailments. It serves as a powerful instrument for seekers to align their internal awareness with the radiant, life-giving brilliance of the cosmic solar force.

ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ॐ अथ सूर्याथर्वाङ्गिरसं-व्याँ᳚ख्यास्या॒मः । ब्रह्मा ऋ॒षिः । गाय॑त्री छ॒न्दः । आदि॑त्यो दे॒वता । हंसः॑ सो॒-ऽहमग्निनारायण यु॑क्त-म्बी॒जम् । हृल्ले॑खा श॒क्तिः । वियदादिसर्गसं​युँ॑क्त-ङ्की॒लकम् । चतुर्विधपुरुषार्थ सिद्ध्यर्थे वि॑नियो॒गः ।
षट्‍स्वरारूढे॑न बीजे॒न षड॑ङ्गं र॒क्ताम्बु॑जसंस्थि॒तं सप्ताश्व॑रथि॒नं हिर॑ण्यव॒र्ण-ञ्च॑तुर्भु॒ज-म्पद्मद्वया-ऽभयवर॑दह॒स्त-ङ्कालचक्र॑प्रणेता॒रं श्रीसूर्यनाराय॒णं-यँ ए॑वं-वेँ॒द स वै ब्रा᳚ह्म॒णः ।
ओ-म्भूर्भुव॒-स्सुवः॑ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । सूर्या॒द्वै खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । सूर्या᳚द्य॒ज्ञः पर्जन्यो᳚-ऽन्नमा॒त्मा ।
नम॑स्ते आदित्य । त्वमे॒व प्र॒त्यक्ष॒-ङ्कर्म॑ कर्तासि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑-ऽसि । त्वमे॒व प्र॒त्यक्षं॒-विँष्णु॑रसि । त्वमे॒व प्र॒त्यक्षं॒ रुद्रो॑-ऽसि । त्वमे॒व प्र॒त्यक्ष॒मृग॑सि । त्वमे॒व प्र॒त्यक्षं॒-यँजु॑रसि । त्वमे॒व प्र॒त्यक्षं॒ सामा॑सि । त्वमे॒व प्र॒त्यक्ष॒मथ॑र्वासि । त्वमे॒व सर्व॑-ञ्छन्दो॒-ऽसि । आ॒दि॒त्याद्वा॑युर्जा॒यते । आ॒दि॒त्याद्भू॑मिर्जा॒यते । आ॒दि॒त्यादापो॑ जाय॒न्ते । आ॒दि॒त्याज्ज्योति॑र्जाय॒ते ।
आ॒दि॒त्याद्व्योम दिशो॑ जाय॒न्ते ।
आ॒दि॒त्याद्दे॑वा जाय॒न्ते । आ॒दि॒त्याद्वे॑दा जाय॒न्ते । आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डल॒-न्तप॑ति । अ॒सावा॑दि॒त्यो ब्र॒ह्मा । आ॒दि॒त्यो-ऽन्तःकरण मनोबुद्धि चित्ता॑हङ्का॒राः । आ॒दि॒त्यो वै व्यान-स्समानोदानो-ऽपा॑नः प्रा॒णः ।
आ॒दि॒त्यो वै श्रोत्र त्वक्चक्षूरस॑नघ्रा॒णाः । आ॒दि॒त्यो वै वाक्पाणिपादपा॑यूप॒स्थाः । आ॒दि॒त्यो वै शब्दस्पर्​शरूपर॑सग॒न्धाः । आ॒दि॒त्यो वै वचनादानागमन विस॑र्गान॒न्दाः । आनन्दमयो विज्ञानमयो विज्ञानघन॑ आदि॒त्यः । नमो मित्राय भानवे मृत्यो᳚र्मा पा॒हि । भ्राजिष्णवे विश्वहेत॑वे न॒मः ।
सूर्याद्भवन्ति॑ भूता॒नि सूर्येण पालि॑तानि॒ तु । सूर्ये लय-म्प्रा᳚प्नुव॒न्ति य-स्सूर्य-स्सो-ऽह॑मेव॒ च । चक्षु॑र्नो दे॒व-स्स॑वि॒ता चक्षु॑र्न उ॒त प॒र्वतः॑ । चक्षु॑र्धा॒ता द॑धातु नः ।
आ॒दि॒त्याय॑ वि॒द्महे॑ सहस्रकिर॒णाय॑ धीमहि । तन्नः॑ सूर्यः प्रचो॒दया᳚त् ।
स॒वि॒ता प॒श्चात्ता᳚-थ्सवि॒ता पु॒रस्ता᳚-थ्सवि॒तोत्त॒रात्ता᳚-थ्सवि॒ता-ऽध॒रात्ता᳚-थ्सवि॒ता नः॑ सुवतु स॒र्वता᳚तिग्ं सवि॒ता नो᳚ रासता-न्दीर्घ॒मायुः॑ ।
ओमित्येकाक्ष॑र-म्ब्र॒ह्म । घृणि॒रिति॒ द्वे अ॒क्षरे᳚ । सूर्य॒ इत्यक्ष॑रद्व॒यम् । आ॒दि॒त्य इति॒ त्रीण्यक्ष॑राणि । एतस्यैव सूर्यस्याष्टाक्ष॑रो म॒नुः ।
य-स्सदाहरह॑र्जप॒ति स वै ब्राह्म॑णो भ॒वति स वै ब्राह्म॑णो भ॒वति । सूर्याभिमु॑खो ज॒प्त्वा महाव्याधि भया᳚-त्प्रमु॒च्यते । अल॑क्ष्मीर्न॒श्यति । अभक्ष्य भक्षणा-त्पू॑तो भ॒वति । अगम्यागमना-त्पू॑तो भ॒वति । पतित सम्भाषणा-त्पू॑तो भ॒वति । अस-थ्सम्भाषणा-त्पू॑तो भ॒वति । अस-थ्सम्भाषणात्पू॑तो भ॒वति ।
मध्याह्ने सूर्याभि॑मुखः प॒ठेत् । सद्योत्पन्नपञ्चमहापातका᳚-त्प्रमु॒च्यते । सैषा सावि॑त्रीं-विँ॒द्या-न्न किञ्चिदपि न कस्मैचि॑-त्प्रशं॒सयेत् । य ए॒ता-म्महाभागः प्रा॑तः प॒ठति स भाग्य॑वान् जा॒यते प॑शून्वि॒न्दति । वेदा᳚र्थं-लँ॒भते । त्रिकालमे॑तज्ज॒प्त्वा क्रतुशतफलम॑वाप्नो॒ति । हस्तादि॑त्ये ज॒पति स महामृ॑त्यु-न्त॒रति स महामृ॑त्यु-न्त॒रति य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ।
ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

Explore More