Goddess Shashthi

श्री षष्ठी देवी स्तोत्रम्

(Shri Shashthi Devi Stotram)

From Brahma Vaivarta Purana

This sacred stotram is derived from the Prakriti Khanda of the Brahma Vaivarta Purana. Goddess Shashthi, a manifestation of the divine mother, serves as the protector of children and the bestower of progeny. Devotees chant this hymn to seek her divine grace for the health, longevity, and well-being of their offspring. By worshipping the goddess, who is described as a compassionate and pure benefactor, parents aim to remove obstacles related to childbirth and parenting. The recitation is believed to bring peace, prosperity, and the blessing of virtuous children into the household.

ध्यानम्

श्रीमन्मातरमम्बिकां विधिमनोजातां सदाभीष्टदां
स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।
सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परं भगवतीं श्रीदेवसेनां भजे ॥ 1 ॥
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रतां
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ।
श्वेतचम्पकवर्णाभां रक्तभूषणभूषितां
पवित्ररूपां परमं देवसेना परां भजे ॥ 2 ॥
स्तोत्रम्
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥ 1 ॥
वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ 2 ॥
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ 3 ॥
सारायै शारदायै च परादेव्यै नमो नमः ।
बालाधिष्टातृदेव्यै च षष्ठीदेव्यै नमो नमः ॥ 4 ॥
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ।
प्रत्यक्षायै सर्वभक्तानां षष्ठीदेव्यै नमो नमः ॥ 5 ॥
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥ 6 ॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ॥ 7 ॥
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।
मानं देहि जयं देहि द्विषो जहि महेश्वरि ॥ 8 ॥
धर्मं देहि यशो देहि षष्ठीदेवी नमो नमः ।
देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ 9 ॥
फलशृति
इति देवीं च संस्तुत्य लभेत्पुत्रं प्रियव्रतम् । यशश्विनं च राजेन्द्रं षष्ठीदेवि प्रसादतः ॥ 10 ॥ षष्ठीस्तोत्रमिदं ब्रह्मान् यः शृणोति तु वत्सरम् । अपुत्रो लभते पुत्रं वरं सुचिर जीवनम् ॥ 11 ॥ वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च । सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ॥ 12 ॥ वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् । सुचिरायुष्यवन्तं च सूते देवि प्रसादतः ॥ 13 ॥ काकवन्ध्या च या नारी मृतवत्सा च या भवेत् । वर्षं शृत्वा लभेत्पुत्रं षष्ठीदेवि प्रसादतः ॥ 14 ॥ रोगयुक्ते च बाले च पितामाता शृणोति चेत् । मासेन मुच्यते रोगान् षष्ठीदेवि प्रसादतः ॥ 15 ॥ जय देवि जगन्मातः जगदानन्दकारिणि । प्रसीद मम कल्याणि नमस्ते षष्ठीदेवते ॥ 16 ॥ इति श्री षष्ठीदेवि स्तोत्रम् ।

Explore More