Lord Kala Bhairava

श्री काल भैरव स्तोत्रम्

(Shri Kala Bhairava Stotram)

Adi Shankaracharya

Composed by the great philosopher Adi Shankaracharya, the Shri Kala Bhairava Stotram is a powerful devotional hymn dedicated to Lord Kala Bhairava, the fierce manifestation of Lord Shiva representing the annihilation of time. Set in a rhythmic meter, it serves as a meditative tool to overcome the fear of death, remove past sins, and transcend the illusions of worldly existence. Regular recitation is believed to protect the devotee from negative energies and obstacles, bestowing peace, courage, and spiritual liberation by aligning one's consciousness with the eternal nature of the divine.

अथ सङ्कल्पः

ॐ ऐं शिव शक्ति साई सिद्धगुरु श्री रमणानन्द महर्षि गुरुभ्यो नमः
ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ श्री दश भैरव देवताभ्यो नमः
अथ चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानन्द महर्षि विरचित
चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रं
शिवाय परमात्मने महाते पापनाशिने ।
नीललोहितदेहाय भैरवाय नमो नमः ॥
ब्रह्म शिरो विखण्डिने ब्रह्म गर्व निपातिने ।
कालकालाय रुद्राय नमोभैरव शूलिने ॥
विष्णु मोह विनाशिने विष्णु सेवित शम्भवे ।
विष्णु कीर्तित सोमाय कालभैरव ते नमः ॥
सर्वभूषित सर्वेशं चतुर्भुजं सुतेजसे ।
शिव तेजोद्भवं हरं श्री भैरवीपतिं भजे ॥
सद्रूपं सकलेश्वरं चिद्र्रूपं चिन्मयेश्वरम् ।
तपोवन्तं महानन्दं महाभैरव ते नमः ॥
नीलाय नीलकण्ठाय अनन्ताय परात्मने ।
भीमाय दुष्टमर्दिने कालभैरव ते नमः ॥
नमस्ते सर्वबीजाय नमस्ते सुखदायिने ।
नमस्ते दुःखनाशिने भैरवाय नमो नमः ॥
सुन्दरं करुणानिधिं पावनं करुणामयम् ।
अघोरं करुणासिन्धुं श्रिभैरवं नमाम्यहम् ॥
जटाधरं त्रिलोचनं जगत् पतिं वृषध्वजम् ।
जगन्मूर्तिं कपालिनिं श्रीभैरवं नम्मामितम् ॥
असिताङ्गः कपालश्च उन्मत्तः भीषणो रुरुः ।
क्रोधः संहार चण्डश्च अष्टभैरव ते नमः ॥
कौमारी वैश्णवी चण्डी इन्द्राणी ब्राह्मणीसुधा ।
अष्टमातृक चामुण्डा श्री वाराही महेश्वरी ॥
काशी क्षेत्र सदा स्थितं काशी क्षेत्र सुपालकम् ।
काशी जन समाराध्यं नमामि कालभैरवम् ॥
अष्टभैरव स्रष्टारं अष्टमातृ सुपूजितम् ।
सर्व भैरव नाथं च श्री काल भैरवं भजे ॥
विष्णु कीर्तित वेदेशं सर्व ऋषि नमस्कृतम् ।
पञ्च पातक नाशकं श्री काल भैरवं भजे ॥
सम्मोहन महारूपं चेतुर्वेद प्रकीर्तितम् ।
विराट् पुरुष महेशं श्री काल भैरवं भजे ॥
असिताङ्गः चतुर्भुजः ब्रह्मणी मतृकापतिः ।
श्वेतवर्णो हंसारूढः प्राक् दिशा रक्षकः शिवः ॥
श्रीरुरुं वृषभारूढं आग्नेय दिक् सुपालकम् ।
नीलवर्णं महाशूरं महेश्वरीपतिं भजे ॥
मयूर वाहनः चण्डः कौमारी मातृका प्रियः ।
रक्तवर्णो महाकालः दक्षिणा दिक् सुरक्षकः ॥
गरुड वाहनः क्रोधः वैष्णवी मातृका प्रभुः ।
ईशानो नीलवर्णश्च निरुती दिक् सुरक्षकः ॥
उन्मत्तः खड्गधारी च अश्वारूढो महोदरः ।
श्री वाराही मनोहरः पश्चिम दिक् सुरक्षकः ॥
कपालो हस्तिवाहनः इन्द्राणी मातृकापतिः ।
स्वर्ण वर्णो महातेजाः वायव्यदिक् सुरक्षकः ॥
भीषणः प्रेतवाहनः चामुण्डा मातृका विभुः ।
उत्तरदिक् सुपालकः रक्तवर्णो भयङ्करः ॥
संहारः सिंहवाहनः श्री चण्डी मातृकापतिः ।
अशभुजः प्राक्रमी ईशान्यदिक् सुपालकः ॥
तन्त्र योगीश्वरेश्वरं तन्त्र विद्या प्रदायकम् ।
ज्ञानदं सिद्धिदं शिवं मोक्षदं भैरवं भजे ॥
इति चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानन्द महर्षि विरचित
चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रम् ॥

Explore More