Lord Hayagriva

श्री हयग्रीव स्तोत्रम्

(Shri Hayagriva Stotram)

Vedanta Desika

Composed by the illustrious Vedanta Desika, this profound stotra invokes Lord Hayagriva, the horse-faced avatar of Lord Vishnu who is revered as the supreme embodiment of knowledge and the presiding deity of the Vedas. Through these verses, the devotee seeks the grace of the Lord to dispel ignorance and attain divine wisdom. Chanting this hymn is believed to sharpen the intellect, enhance memory, and grant mastery over speech and scripture. It is considered an essential practice for students and scholars seeking clarity, focus, and the profound enlightenment that flows from the source of all wisdom.

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥3॥
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टे रञ्जनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥7॥
मन्दोऽभविष्यन्नियतं विरिञ्चः
वाचां निधेर्वाञ्छितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान्मन्त्रमयं शरीरं
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानन्ति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिं तवानन्दसुधाप्रसूतिं
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्ध सिन्धोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयम्पुरोभावविवादभाजः
किङ्कुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्दं
अलक्षिते क्वापि निरूढ मूलं
अङ्ग्वेष्वि वानन्दथुमङ्कुरन्तम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचन्द्रोदयवर्धमानं
अमान्तमानन्दपयोधिमन्तः
पयोभि रक्ष्णां परिवाहयन्ति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससम्पदो मे
समेधिषीरं स्तव पादपद्मे
सङ्कल्पचिन्तामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेन्द्रचूडापदलालितानां
त्वदङ्घ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषङ्गा
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ॥21॥
त्वत्किङ्करालङ्करणोचितानां
त्वयैव कल्पान्तरपालितानां
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥22॥
सञ्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटीयन्त्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवालसङ्घातमिवोद्वहन्तं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान्
निशामये त्वां नवपुण्डरीके
शरद्घनेचन्द्रमिव स्फुरन्तम् ॥26॥
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतङ्क्षरन्तीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समराङ्गणेषु
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकम्पनीयान्यपनीतिभेदैः
अलङ्कृषीरन् हृदयं मदीयम्
शङ्का कलङ्का पगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥33॥

Explore More