Lord Shiva

श्री दक्षिणामूर्थि अष्टोत्तर शत नाम स्तोत्रम्

(Shri Dakshinamurti Ashtottara Shata Nama Stotram)

Traditional

This sacred hymn consists of one hundred and eight names of Lord Dakshinamurti, the supreme embodiment of Shiva as the ultimate guru or teacher. Often chanted by students and spiritual seekers, the stotram invokes the Lord who resides under the banyan tree to impart silent knowledge. Regular recitation is believed to sharpen intellect, grant clarity of thought, and remove ignorance. By meditating on these names, the devotee seeks the grace of the cosmic teacher to attain profound wisdom, spiritual maturity, and realization of the self, ultimately leading to liberation from the cycle of worldly existence.

ध्यानं

व्याख्यारुद्राक्षमाले कलशसुरभिते बाहुभिर्वामपादं
बिभ्राणो जानुमूर्ध्ना वटतरुनिवृतावस्यधो विद्यमानः ।
सौवर्णे योगपीठे लिपिमयकमले सूपविष्टस्त्रिणेत्रः
क्षीराभश्चन्द्रमौलिर्वितरतु नितरां शुद्धबुद्धिं शिवो नः ॥
स्तोत्रं
विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालङ्कृतसर्वाङ्गो रत्नमाली जटाधरः ॥ 1 ॥
गङ्गाधार्यचलावासी सर्वज्ञानी समाधिधृत् ।
अप्रमेयो योगनिधिस्तारको भक्तवत्सलः ॥ 2 ॥
ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरान्तकः ।
उक्षवाहश्चर्मवासाः पीताम्बरविभूषणः ॥ 3 ॥
मोक्षसिद्धिर्मोक्षदायी दानवारिर्जगत्पतिः ।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः ॥ 4 ॥
पापापस्मृतिसंहर्ता शशिमौलिर्महास्वनः ।
सामप्रियः स्वयं साधुः सर्वदेवैर्नमस्कृतः ॥ 5 ॥
हस्तवह्निधरः श्रीमान् मृगधारी च शङ्करः ।
यज्ञनाथः क्रतुध्वंसी यज्ञभोक्ता यमान्तकः ॥ 6 ॥
भक्तानुग्रहमूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोद्धूलितसर्वाङ्गोऽप्यक्षमालाधरो महान् ॥ 7 ॥
त्रयीमूर्तिः परं ब्रह्म नागराजैरलङ्कृतः ।
शान्तरूपो महाज्ञानी सर्वलोकविभूषणः ॥ 8 ॥
अर्धनारीश्वरो देवो मुनिसेव्यः सुरोत्तमः ।
व्याख्यानदेवो भगवान् अग्निचन्द्रार्कलोचनः ॥ 9 ॥
जगत्स्रष्टा जगद्गोप्ता जगद्ध्वंसी त्रिलोचनः ।
जगद्गुरुर्महादेवो महानन्दपरायणः ॥ 10 ॥
जटाधारी महावीरो ज्ञानदेवैरलङ्कृतः ।
व्योमगङ्गाजलस्नाता सिद्धसङ्घसमर्चितः ॥ 11 ॥
तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ।
व्योममूर्तिश्च भक्तानामिष्टकामफलप्रदः ॥ 12 ॥
वीरमूर्तिर्विरूपी च तेजोमूर्तिरनामयः ।
वेदवेदाङ्गतत्त्वज्ञश्चतुष्षष्टिकलानिधिः ॥ 13 ॥
भवरोगभयध्वंसी भक्तानामभयप्रदः ।
नीलग्रीवो ललाटाक्षो गजचर्मा च ज्ञानदः ॥ 14 ॥
अरोगी कामदहनस्तपस्वी विष्णुवल्लभः ।
ब्रह्मचारी च सन्न्यासी गृहस्थाश्रमकारणः ॥ 15 ॥
दान्तशमवतां श्रेष्ठः सत्त्वरूपदयानिधिः ।
योगपट्टाभिरामश्च वीणाधारी विचेतनः ॥ 16 ॥
मन्त्रप्रज्ञानुगाचारो मुद्रापुस्तकधारकः ।
रागहिक्कादिरोगाणां विनिहन्ता सुरेश्वरः ॥ 17 ॥
इति श्री दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम् ॥

Explore More