Lord Shiva

शिवोपासन मन्त्राः

(Shivopasana Mantrah)

From Yajurveda

Shivopasana Mantrah originates from the Taittiriya Aranyaka of the Yajurveda, forming a profound collection of invocations dedicated to Lord Shiva as the supreme lord of dissolution and transcendence. These verses emphasize the duality and unity of the divine, addressing Shiva as the protector of the cosmic cycle and the embodiment of vertical ascension. Reciting these powerful mantras is believed to cleanse the practitioner of negative karma, foster spiritual awakening, and grant mental tranquility. It is highly regarded for its meditative efficacy in aligning the human consciousness with the eternal, unchanging nature of the Divine.

ओ-न्निध॑नपतये॒ नमः । निधनपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवायः॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतत्सोमस्य॑ सूर्य॒स्य सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्र-म्पवि॒त्रम् ॥
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नम॒ स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ।
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वरसर्व॑ भूता॒नां॒
ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये-ऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥
ऋ॒तग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ ।
पुरु॑षो॒ वै रु॒द्रस्सन्म॒हो नमो॒ नमः॑ ।
विश्व॑-म्भू॒त-म्भुव॑न-ञ्चि॒त्र-म्ब॑हु॒धा जा॒त-ञ्जाय॑मान-ञ्च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ ।
क-द्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ ।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो-ऽव॑धीर्​ह॒विष्मं॑तो॒ नम॑सा विधेम ते ।
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मा-ऽमृता᳚त् ।
ये ते॑ स॒हस्र॑म॒युत॒-म्पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ।
प्राणाना-ङ्ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना᳚प्याय॒स्व ॥
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
त्वम॑ग्ने द्युभि॒स्त्व-मा॑शुशु॒क्षणि॒स्त्व-म॒द्भ्यस्त्व-मश्म॑न॒स्परि॑ । त्वं-वँने᳚भ्य॒-स्त्वमोष॑धीभ्य॒-स्त्व-न्नृ॒णा-न्नृ॑पते जायसे॒ शुचिः॒ ॥
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व-स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्यद्भि॒र्मनु॒ सन्ति॑ष्ठस्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ।

Explore More