The Nine Planets (Navagraha)

नवग्रह सूक्तम्

(Navagraha Suktam)

From Rig Veda

The Navagraha Suktam is a powerful Vedic hymn extracted from the Rig Veda, dedicated to the nine celestial bodies that govern karmic influence in astrology. It invokes the planetary deities—Sun, Moon, Mars, Mercury, Jupiter, Venus, Saturn, Rahu, and Ketu—to align their energies harmoniously. By chanting this stotra, devotees seek to mitigate malefic astrological effects, remove obstacles, and ensure cosmic balance in their lives. It serves as a spiritual tool for achieving peace, prosperity, and protection, acknowledging the divine intelligence reflected through the movements of the cosmos and the grace of the planetary lords.

1. (देवता - आदित्यः, अधिदेवता- अग्निः, प्रत्यधिदेवता - पशुपतिः)
ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒-म्मर्त्य॑ञ्च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना ऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्न्॑ ॥
(तै. सं. 3.4.11.2)
अ॒ग्नि-न्दू॒तं-वृँ॑णीमहे॒ होता॑रं-विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ॥ (तै. ब्रा. 3.5.2.3)
येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां-चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् ।
निष्क्री॑तो॒-ऽयं-यँ॒ज्ञिय॑-म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ (तै. सं. 3.1.4.1)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते आदि॑त्याय॒ नमः॑) 1
2. (देवता - अङ्गारकः, अधिदेवता - पृथिवी, प्रत्यधिदेवता - क्षेत्रपतिः)
ॐ अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥ (तै. सं. 1.5.5.1)
स्यो॒ना पृ॑थिवि॒ भवा॑-ऽनृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑न॒-श्शर्म॑ स॒प्रथाः᳚॥ (तै. अर. 6.1.10)
क्षेत्र॑स्य॒ पति॑ना व॒यग्ं हि॒तेने॑व जयामसि ।
गामश्व॑-म्पोषयि॒त्न्वा स नो॑ मृडाती॒-दृशे᳚ ॥ (तै. सं. 1.1.14.2)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते अङ्क्रका॑य॒ नमः॑) 2
3. (देवता - शुक्रः, अधिदेवता - इन्द्राणी, प्रत्यधिदेवता - इन्द्रः)
ओ-म्प्रव॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वग्ं ह॒व्य-म्म॒ति-ञ्चा॒ग्नये॒ सुपू॑तम् ।
यो दैव्या॑नि॒ मानु॑षा ज॒नूग्​-ष्य॒न्तर् विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ (तै. ब्रा. 2.8.2.3)
इ॒न्द्रा॒णी मा॒सु नारि॑षु सु॒पत्नी॑-म॒हम॑श्रवम् ।
न ह्य॑स्या अप॒रञ्च॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥ (तै. सं. 1.7.13.1)
इन्द्रं॑-वोँ वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥ (तै. सं. 1.6.12.1)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्रा॑य॒ नमः॑) 3
4. (देवता - सोमः/चन्द्रमा, अधिदेवता- अपः, प्रत्यधिदेवता - गौरी)
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑-स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥ (तै. सं. 4.2.7.4)
अ॒फ्सुमे॒ सोमो॑ अब्रवीद॒न्तर् विश्वा॑नि भेष॒जा ।
अ॒ग्निञ्च॑ वि॒श्वश॑भुं​वँ॒-माप॑श्च वि॒श्वभे॑षजीः ॥ (तै. ब्रा. 2.5.8.6)
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्न् ॥ (तै. ब्रा. .2.4.6.11)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमा॑य॒ नमः॑) 4
5. (देवता - बुधः, अधिदेवता - विष्णुः, प्रत्यधिदेवता - पुरुष नारायणः)
ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येन मिष्टापू॒र्ते सग्ं सृ॑जेथा म॒यञ्च॑ ।
पुनः॑ कृ॒ण्वग्ग्​स्त्वा॑ पि॒तरं॒-युँवा॑न-म॒न्वाताग्ं॑सी॒ त्वयि॒ तन्तु॑मे॒तम् ॥ (तै. सं. 4.7.13.5)
इ॒दं-विँष्णु॒र् विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाग्ं सु॒रे ॥ (तै. सं. 1.2.13.1)
विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्नप्त्रे᳚स्थो॒ विष्णो॒ स्स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ (तै. सं. 1.2.13.3)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधा॑य॒ नमः॑) 5
6. (देवता - बुहस्पतिः, अधिदेवता - इन्द्र-मरुत, प्रत्यधिदेवता - ब्रह्म)
ओ-म्बृह॑स्पते॒ अति॒ यद॒र्यो अर्​ह᳚द् द्यु॒म-द्वि॒भाति॒ क्रतु॑ म॒ज्जने॑षु ।
यद्दी॒द य॒च्छ व॑सर्त प्रजात॒ तद॒स्मासु॒ द्रवि॑ण-न्धेहि चि॒त्रम् ॥ (तै. सं. 1.8.22.2)
इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना-वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥ (तै. सं. 1.4.18.1)
ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒द् विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒म-स॑तश्च॒ विवः॑ ॥ (तै. सं. 4.2.8.2)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृह॒स्पत॑ये॒ नमः॑) 6
7. (देवता - शनैश्चरः, अधिदेवता - प्रजापतिः, प्रत्यधिदेवता - यमः)
ॐ शन्नो॑ दे॒वी-र॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ ।
शं-योँर॒भि-स्र॑वन्तु नः ॥ (तै. अर. 7.42.4)
प्रजा॑पते॒ न त्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ (तै. सं. 1.8.14.2)
इ॒मं-यँ॑म प्रस्त॒रमाहि सीदाङ्कि॑रोभिः पि॒तृभिः॑ सं​विँदा॒नः ।
आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥ (तै. सं. 2.6.12.6)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्च॑राय॒ नमः॑) 7
8. (देवता - राहु, अधिदेवता- सर्पः, प्रत्यधिदेवता - निर्-ऋत)
ओ-ङ्कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒ स्सखा᳚ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥ (तै. सं. 4.2.11.2)
आ-ऽयङ्कौः पृश्नि॑रक्रमी॒-दस॑न-न्मा॒तर॒-म्पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्​थ्सुवः॑ ॥ (तै. सं. 1.5.3.1)
यत्ते॑ दे॒वी निर्-ऋति॑ राब॒बन्ध॒ दाम॑ ग्री॒वास्व॑-विच॒र्त्यम् ।
इ॒दन्ते॒ तद्विष्या॒-म्यायु॑षो॒ न मद्ध्या॒-दथा॑ जी॒वः
पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ (तै. सं. 4.2.5.3)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते राह॑वे॒ नमः॑) 8
9. (देवता - केतुः , अधिदेवता - ब्रह्म, प्रत्यधिदेवता - चित्रगुप्तः)
ओ-ङ्के॒तु-ङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ ।
समु॒षद्भि॑रजायथाः ॥ (तै. सं. 7.4.20.1)
ब्र॒ह्मा दे॒वाना᳚-म्पद॒वीः क॑वी॒ना-मृषि॒र्विप्रा॑णा-म्महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृद्ध्रा॑णा॒ग्॒​ स्वधि॑ति॒र् वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्न्॑ ॥ (तै. सं. 3.4.11.1)
सचि॑त्र चि॒त्र-ञ्चि॒तय॑न्त-म॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं-वँयो॒धाम् ।
च॒न्द्रं र॒यि-म्पु॑रु॒वीर॑-म्बृ॒हन्त॒-ञ्चन्द्र॑-च॒न्द्राभि॑र्-गृण॒ते यु॑वस्व ॥ (ऋग्. वे. 6.6.7).
(ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यो भगवद्भ्यः केतु॑भ्यो॒ नमः॑) 9
॥ ॐ आदित्यादि नवग्रह देव॑ताभ्यो॒ नमो॒ नमः॑॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

Explore More