Lord Krishna

नन्द कुमार अष्टकम्

(Nandakumara Ashtakam)

Traditional

Nandakumara Ashtakam is a rhythmic and devotional hymn dedicated to Lord Krishna, specifically in his enchanting form as the darling son of Nanda. The verses vividly describe his aesthetic beauty, such as his lotus-like face, divine ornaments, and playful demeanor in the forests of Vrindavan. Through its lyrical structure, the stotra emphasizes the path of devotion, encouraging the seeker to meditate on the supreme reality embodied within Krishna. Regular chanting of this Ashtakam is believed to bestow immense peace, remove sorrows, grant mental clarity, and deepen one's spiritual connection with the divine essence of the eternal cosmic child.

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
बृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 1 ॥
सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 2 ॥
शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 3 ॥
शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेषं कामवरं
मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 4 ॥
इन्दीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 5 ॥
अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 6 ॥
जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतिरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृत आनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 7 ॥
वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 8 ॥
इति श्रीमद्वल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकम् ॥

Explore More