Lord Shiva

मृतसञ्जीवन कवच स्तोत्रम्

(Mritasanjivana Kavacha Stotram)

From Rudrayamala Tantra

The Mritasanjivana Kavacha is a potent protective hymn dedicated to Lord Shiva, the conqueror of death, known as Mrityunjaya. Originating from the sacred Rudrayamala Tantra, this stotra acts as a spiritual armor for the devotee. Chanting this sacred text is believed to bestow longevity, dissolve the fear of death, and grant relief from grave illnesses and calamities. It invokes the divine grace of Lord Shiva to shield the practitioner from negativity, ensuring both physical vitality and spiritual liberation. Regular recitation is said to be among the most meritorious practices for gaining the protection of the Supreme Being.

एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् ।
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥ 1 ॥
सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ।
महादेवस्य कवचं मृतसञ्जीवनामकम् ॥ 2 ॥
समाहितमना भूत्वा शृणुष्व कवचं शुभम् ।
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥ 3 ॥
वराभयकरो यज्वा सर्वदेवनिषेवितः ।
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥ 4 ॥
दधानः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः ।
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥ 5 ॥
अष्टादशभुजोपेतो दण्डाभयकरो विभुः ।
यमरूपी महादेवो दक्षिणस्यां सदावतु ॥ 6 ॥
खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।
रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥ 7 ॥
पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।
वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥ 8 ॥
गदाभयकरः प्राणनायकः सर्वदागतिः ।
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥ 9 ॥
शङ्खाभयकरस्थो मां नायकः परमेश्वरः ।
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥ 10 ॥
शूलाभयकरः सर्वविद्यानामधिनायकः ।
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ 11 ॥
ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माधः सदावतु ।
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥ 12 ॥
भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ।
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥ 13 ॥
नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥ 14 ॥
मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ।
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥ 15 ॥
पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥ 16 ॥
कटद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ।
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥ 17 ॥
जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ।
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥ 18 ॥
गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥ 19 ॥
सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ।
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥ 20 ॥
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ।
सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥ 21 ॥
यः पठेच्चृणुयान्नित्यं श्रावयेत्सु समाहितः ।
स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥ 22 ॥
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।
आधयोव्याधयस्तस्य न भवन्ति कदाचन ॥ 23 ॥
कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ।
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥ 24 ॥
युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् ।
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥ 25 ॥
न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ।
विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥ 26 ॥
प्रातरुत्थाय सततं यः पठेत्कवचं शुभम् ।
अक्षय्यं लभते सौख्यमिहलोके परत्र च ॥ 27 ॥
सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ।
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥ 28 ॥
विचरत्यखिलान्लोकान्प्राप्य भोगांश्च दुर्लभान् ।
तस्मादिदं महागोप्यं कवचं समुदाहृतम् ॥ 29 ॥
मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥ 30 ॥
इति वसिष्ठ कृत मृतसञ्जीवन कवच स्तोत्रम् ॥

Explore More