Lord Shiva

श्री महान्यासम् - 7.1. शिवसङ्कल्पाः

(Shiva Sankalpa Suktam)

From Rig Veda Khila

The Shiva Sankalpa Suktam is a profound collection of six Vedic mantras originating from the Rig Veda Khila. It focuses on the internal state of the mind, invoking the grace of the Divine to purify and direct our thoughts toward auspiciousness and righteousness. By chanting these verses, the seeker prays for a mind that is steady, enlightened, and aligned with cosmic wisdom. It is highly valued in Hindu tradition for its ability to foster mental clarity, emotional stability, and spiritual focus, ultimately guiding the devotee toward harmony with the supreme consciousness represented by Lord Shiva.

(ऋग् वेद खिल काण्डं 4.11 9.1)
येने॒द-म्भू॒त-म्भुव॑न-म्भवि॒ष्य-त्परि॑गृहीत-म॒मृते॑न॒ सर्व᳚म् । येन॑ य॒ज्ञस्ता॑यते
(य॒ज्ञस्त्रा॑यते) स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 1
येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ ।
य-थ्स॒म्मित॒मनु॑ सं॒​यँन्ति॑ प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 2
येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॑ण्वन्ति वि॒दथे॑षु॒ धीराः᳚ ।
यद॑पू॒र्वं-यँ॒क्ष्मम॒न्तः प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 3
यत्प्र॒ज्ञान॑-मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑ र॒न्तर॒मृत॑-म्प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 4
सु॒षा॒र॒थि-रश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्ने नी॒यते॑-ऽभी॒शु॑भि र्वा॒जिन॑ इव ।
हृत्प्र॑तिष्ठं॒-यँद॑जिर॒-ञ्जवि॑ष्ठ॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 5
यस्मि॒न् ऋच॒स्साम॒-यजूग्ं॑षि॒ यस्मि॑-न्प्रतिष्ठि॒ता र॑थ॒नाभा॑ वि॒वाराः᳚ ।
यस्मिग्ग्॑श्चि॒त्तग्ं सर्व॒मोत॑-म्प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 6
यदत्र॑ ष॒ष्ठ-न्त्रि॒शतग्ं॑ सु॒वीरं॑-यँ॒ज्ञस्य॑ गु॒ह्य-न्नव॑ नाव॒माय्य᳚म् ।
दश॒ पञ्च॑ त्रि॒ग्ं॒शतं॒-यँत्पर॑-ञ्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 7
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैव॒-न्तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ग॒म्म-ञ्ज्योति॑षा॒-ञ्ज्योति॒रेक॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 8
येने॒दं-विँश्व॒-ञ्जग॑तो ब॒भूव॒ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः ।
तदे॒वाग्नि-स्तम॑सो॒ ज्योति॒रेक॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 9
येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्ष-ञ्च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च ।
येने॒द-ञ्जग॒-द्व्याप्त॑-म्प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 10
ये म॑नो॒ हृद॑यं॒-येँ च॑ दे॒वा ये दि॒व्या आपो॒ ये सूर्य॑रश्मिः ।
ते श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्त॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 11
अचि॑न्त्य॒-ञ्चा प्र॑मेय॒-ञ्च व्य॒क्ता-व्यक्त॑ पर॒-ञ्च य॑त् ।
सूक्ष्मा᳚-थ्सूक्ष्मत॑र-ञ्ज्ञे॒य॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 12
एका॑ च द॒श श॒त-ञ्च॑ स॒हस्र॑-ञ्चा॒युत॑-ञ्च नि॒युत॑-ञ्च प्र॒युतं॒
चार्बु॑द-ञ्च॒ न्य॑र्बुद-ञ्च समु॒द्रश्च॒ मद्ध्य॒-ञ्चान्त॑श्च परा॒र्धश्च॒ तन्मे॒ मनः॑
शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 13
ये प॑ञ्च॒ पञ्च॑ दश श॒तग्ं स॒हस्र॑-म॒युत॒-न्न्य॑र्बुद-ञ्च ।
ते अ॑ग्नि-चि॒त्येष्ट॑का॒स्तग्ं शरी॑र॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 14
वेदा॒हमे॒त-म्पु॑रुष-म्म॒हान्त॑-मादि॒त्य-व॑र्ण॒-न्तम॑सः॒ पर॑स्तात् ।
यस्य॒ योनि॒-म्परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 15
यस्ये॒द-न्धीराः᳚ पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒त-न्त्वा॑ वृणत॒ इन्दु᳚म् ।
स्था॒व॒र-ञ्जङ्ग॑मं॒-द्यौ॑राका॒श-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 16
परा᳚-त्प॒रत॑र-ञ्चै॒व॒ य॒-त्परा᳚श्चैव॒ यत्प॑रम् ।
य॒त्परा᳚-त्पर॑तो ज्ञे॒य॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 17
परा᳚-त्परत॑रो ब्र॒ह्मा॒ त॒त्परा᳚-त्पर॒तो ह॑रिः ।
त॒त्परा᳚-त्पर॑तो ऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 18
या वे॑दा॒दिषु॑ गाय॒त्री॒ स॒र्व॒व्यापि॑ महे॒श्वरी ।
ऋग् य॑जु-स्सामा-थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 19
यो वै॑ दे॒व-म्म॑हादे॒व॒-म्प्र॒णव॑-म्पर॒मेश्व॑रम् ।
य-स्सर्वे॑ सर्व॑ वेदै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 20
प्रय॑तः॒ प्रण॑वोङ्का॒र॒-म्प्र॒णव॑-म्पुरु॒षोत्त॑मम् ।
ओकां॑र॒-म्प्रण॑वात्मा॒न॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 21
यो-ऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ प॒ठ्यते᳚ ह्यज॒ ईश्व॑रः । अ॒कायो॑ निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 22
गोभि॒ र्जुष्ट॒-न्धने॑न॒ ह्यायु॑षा च॒ बले॑न च । प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्ष॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 23
कैला॑स॒ शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये ।
दे॒वता᳚स्तत्र॑ मोद॒न्ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 24
त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता॒-त्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 25
वि॒श्वत॑-श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।
सम्बा॒हुभ्यां॒-नम॑ति॒ सम्प॑तत्रै॒ र्द्यावा॑ पृथि॒वी ज॒नय॑-न्दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 26
च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्व शा᳚स्त्रम॒यं-विँ॑दुः । इ॒ति॒हा॒स॒ पु॒रा॒णा॒ना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 27
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 28
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तोव॑धी र्​ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 29
ऋ॒तग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 30
क-द्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 31
ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 32
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 33
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒-यँस्य॑ दे॒वाः ।
यस्य॑ छा॒या-ऽमृतं॒-यँस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 34
यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना-ऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 35
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑ भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रिय॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 36
य इदग्ं॑ शिव॑सङ्क॒ल्प॒ग्ं॒ स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः । ते प॑र-म्मोक्ष॑-ङ्गमिष्य॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 37
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ शिवसङ्कल्पग्ं हृदयाय नमः॑ ॥

Explore More