Lord Shiva

श्री महान्यासम् - 5.3. दशाङ्ग रौद्रीकरणम्

(Sri Mahanyasam - 5.3. Dashanga Raudrikaranam)

From Yajurveda (Taittiriya Aranyaka)

Dashanga Raudrikaranam is a crucial segment of the Sri Mahanyasam, a Vedic liturgical procedure performed to invoke the divine presence of Lord Shiva within the practitioner's body. By chanting these powerful mantras, the devotee systematically sanctifies their physical form, aligning it with the cosmic energy of Rudra. This process is essentially an act of self-consecration, meant to dissolve past karma and impurities. It serves as an essential preparatory rite for the recitation of Sri Rudram, bestowing spiritual purity, inner protection, and the grace of Shiva upon those who perform it with devotion and precision.

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्र-म्पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
पूर्वदिग्भागे ललाटस्थाने इन्द्राय नमः ॥ 1 ॥
(तै.सं.1-6-12-50)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्नम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडो-ऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । नं ओम् ।
आग्नेयदिग्भागे नेत्रयोस्थाने अग्नये नमः ॥ 2 ॥
(तै.सं.2-5-12-72)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-म्मोम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
सु॒ग-न्नः॒ पन्था॒मभ॑य-ङ्कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । मों ओम् ।
दक्षिणदिग्भागे कर्णयोस्थाने यमाय नमः ॥ 3 ॥
(तै.ब्रा.3-1-2-11-23)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-म्भम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असु॑न्वन्त॒ मय॑जमानमिच्छस्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । भं ओम् ।
निर्.ऋतिदिग्भागे मुखस्थाने निर्.ऋतये नमः ॥ 4 ॥
(तै.सं.4-2-5-21)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-ङ्गम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । गं ओम् ।
पश्चिमदिग्भागे बाह्वोस्थाने वरुणाय नमः ॥ 5 ॥
(तै.सं.2-1-11-65)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ-वँम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् । स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । वं ओम् ।
वायव्यदिग्भागे नासिकास्थाने वायवे नमः ॥ 6 ॥
(तै.ब्रा.2-8-1-2)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्तेम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒बिभ्र॑तः ।
प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । तें ओम् ।
उत्तरदिग्भागे जठरस्थाने कुबेराय नमः ॥ 7 ॥
(तै.ब्रा.2-4-2-7-18)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ रुम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तमीशा᳚न॒-ञ्जग॑तस्त॒स्थुष॒स्पति᳚-न्धिय-ञ्जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध-स्स्व॒स्तये᳚ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । रुं ओम् ।
ईशान्यदिग्भागे नाभिस्थाने ईशानाय नमः ॥ 8 ॥
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्द्राम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
य-श्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । द्रां ओम् ।
ऊर्ध्वदिग्भागे मूर्ध्निस्थाने आकाशाय नमः ॥ 9 ॥
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ-यँम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः᳚ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । यं ओम् ।
अधोदिग्भागे पादस्थाने पृथिव्यै नमः ॥ 10 ॥
[अप उपस्पृश्य]

Explore More