Lord Shiva

श्री महान्यासम् - 1. पञ्चाङ्ग रुद्रन्यासः

(Shri Mahanayassam - 1. Panchanga Rudra Nyasa)

From Yajurveda

The Panchanga Rudra Nyasa is a vital preparatory ritual foundational to the practice of Sri Rudram. Deriving its authority from the Yajurveda, this meditative process involves the systematic placement of divine energies onto specific parts of the human body. By invoking the different aspects of Lord Shiva, the practitioner purifies their physical and spiritual essence, transforming the body into a living temple. Regular performance of this nyasa is believed to remove profound karmic obstacles, grant mental clarity, and align the devotee with the supreme cosmic consciousness, ultimately leading to spiritual liberation and inner peace.

अथातः पञ्चाङ्गरुद्राणां
न्यासपूर्वक-ञ्जप-होमा-र्चना-भिषेक-विधिं-व्याँ᳚ख्यास्यामः ।
अथातः पञ्चाङ्गरुद्राणां
न्यासपूर्वक-ञ्जप-होमा-र्चनाभिषेक-ङ्करिष्यमाणः ।
हरिः ॐ अथातः पञ्चाङ्ग रुद्राणाम् ॥
ओङ्कारमन्त्र सं​युँक्त-न्नित्य-न्ध्यायन्ति योगिनः ।
कामद-म्मोक्षद-न्तस्मै ओङ्काराय नमो नमः ॥
नमस्ते देव देवेश नमस्ते परमेश्वर ।
नमस्ते वृषभारूढ नकाराय नमो नमः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ओ-म्भूर्भुव॒स्सुवः॑ ॥ ओ-न्नम् ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥
या त॒ इषुः॑ शि॒वत॑मा शि॒व-म्ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ नं ओम् । पूर्वाङ्ग रुद्राय॒ नमः ॥ (प्राच्यै दिश, East)
महादेव-म्महात्मान-म्महापातकनाशनम् ।
महापापहरं-वँन्दे मकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ओ-म्मम् ॥
ओ-न्निध॑नपतये॒ नमः । निधनपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवायः॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतथ्सोमस्य॑ सूर्य॒स्य सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्र-म्पवि॒त्रम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ मं ओम् ॥
दक्षिणाङ्ग रुद्राय॒ नमः ॥ (दक्षिण दिश, South)
शिवं शान्त-ञ्जगन्नाथं-लोँकानुग्रहकारणम् ।
शिवमेक-म्परं-वँन्दे शिकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ॐ शिम् ॥
अपै॑तुमृ॒त्युरमृत॑-न्न॒ आग॑न् वैवस्व॒तो नो॒ अ॑भय-ङ्कृणोतु । प॒र्णं-वँन॒स्पतेरिवा॒भिनश्शीयताग्ं र॒यिस्सच॑ता-न्न॒श्शची॒पतिः॑ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ शिं ओम् ॥ पश्चिमाङ्ग रुद्राय॒ नमः ॥ (पश्चिम दिश, West)
वाहनं-वृँषभो यस्य वासुकी कण्ठभूषणम् ।
वामे शक्तिधरं-वँन्दे वकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ॐ-वाँम् ॥
प्राणाना-ङ्ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ ओ-न्नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ वां ओम् ॥ उत्तराङ्ग रुद्राय॒ नमः ॥ (उत्तर दिश, North)
यत्र कुत्र स्थित-न्देवं सर्वव्यापिनमीश्वरम् ।
यल्लिङ्ग-म्पूजयेन्नित्यं-यँकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ॐ-यँम् ॥
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ यं ओम् ॥ ऊर्ध्वाङ्ग रुद्राय॒ नमः ॥ (ऊर्ध्व दिश, Up)

Explore More