Brahman (The Supreme Absolute)

7 - शीक्षावल्ली - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - शीक्षां व्याख्यास्यामः

(Shiksha Valli)

From Taittiriya Upanishad, Krishna Yajurveda

Shiksha Valli is the first chapter of the Taittiriya Upanishad, nestled within the Taittiriya Aranyaka of the Krishna Yajurveda. It begins with the iconic Shanti Mantra, invoking cosmic deities for peace and harmony. This profound text explores the science of phonetics, the nature of Brahman, and the ethical conduct expected of a student. It serves as a foundational guide for seekers, emphasizing the unity of all existence. Chanting these verses helps in cleansing the intellect, fostering mental clarity, and establishing a deep, meditative connection with the eternal, omnipresent Divine Absolute.

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके सप्तमः प्रपाठकः - शीक्षावल्ली
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1
शन्नो॑ मि॒त्र-श्शं-वँरु॑णः । शन्नो॑ भवत्वर्य॒मा । शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑-रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार᳚म् ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥
(स॒त्त्यम् ँव॑दिष्यामि॒ पञ्च॑ च) (अ. 1)
अनुवाकं 2
शीक्षां-व्याँ᳚ख्यास्या॒मः । वर्ण॒-स्स्वरः ।
मात्रा॒ बलम् । साम॑ सन्ता॒नः ।
इत्युक्त-श्शी᳚क्षाद्ध्या॒यः ॥ 2 ॥
(शीक्षा-म्पञ्च॑) (अ. 2)
अनुवाकं 3
स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् ॥
अथात-स्सग्ंहिताया उपनिषदं-व्याँ᳚ख्यास्या॒मः । पञ्चस्वधि-क॑रणे॒षु । अधिलोकमधि-ज्यौतिष-मधिविद्य-मधिप्रज॑-मद्ध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते ॥ अथा॑धि लो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑श-स्स॒न्धिः ॥ 3 ॥
वायुः॑ सन्धा॒नम् । इत्य॑धि लो॒कम् ॥
अथा॑धि ज्यौ॒तिषम् । अग्निः पू᳚र्व रू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑प-स्स॒न्धिः । वैद्युतः॑ सन्धा॒नम् । इत्य॑धि ज्यौ॒तिषम् ॥ अथा॑धि वि॒द्यम् । आचार्यः पू᳚र्व रू॒पम् ॥ 4 ॥
अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः ।
प्रवचनग्ं॑ सन्धा॒नम् । इत्य॑धि वि॒द्यम् ॥
अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननग्ं॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥ 5 ॥
अथाद्ध्या॒त्मम् । अधराहनुः पू᳚र्व रू॒पम् । उत्तराहनु-रुत्त॑ररू॒पम् । वा-ख्स॒न्धिः । जिह्वा॑ सन्धा॒नम् । इत्यद्ध्या॒त्मम् ॥ इती माम॑हा स॒ग्ं॒हिताः ॥ य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्च-सेनान्नाद्येन सुवर्ग्येण॑ (सुवर्गेण॑) लोके॒न ॥ 6 ॥
(स॒न्धि - राचार्यः पू᳚र्वरू॒प - मित्यधि॒प्रजम् - ँलो॑के॒न) (अ. 3)
अनुवाकं 4
य श्छन्द॑सा-मृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो-ऽद्ध्य॒मृता᳚-थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् ॥
शरी॑र-म्मे॒ विच॑र्​षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्या॒-म्भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑-ऽसि मे॒धया ऽपि॑हितः । श्रु॒त-म्मे॑ गोपाय ॥ आ॒वह॑न्ती वितन्वा॒ना ॥ 7 ॥
कु॒र्वा॒णा चीर॑-मा॒त्मनः॑ । वासाग्ं॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒-माव॑ह । लो॒म॒शा-म्प॒शुभिः॑ स॒ह स्वाहा᳚ ॥ आमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ ।
विमा॑-ऽऽयन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ । प्रमा॑-ऽऽयन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ । दमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ । शमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ ॥ 8 ॥
यशो॒ जने॑-ऽसानि॒ स्वाहा᳚ । श्रेया॒न्॒. वस्य॑सो-ऽसानि॒ स्वाहा᳚ ॥ त-न्त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मि᳚न-थ्स॒हस्र॑ शाखे । निभ॑गा॒ह-न्त्वयि॑ मृजे॒ स्वाहा᳚ ॥ यथा-ऽऽपः॒ प्रव॑ता॒-ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् ।
ए॒व-म्मा-म्ब्र॑ह्मचा॒रिणः॑ ।
धात॒राय॑न्तु स॒र्वत॒-स्स्वाहा᳚ ॥
प्र॒ति॒वे॒शो॑-ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥ 9 ॥
(वि॒त॒न्वा॒ना - शमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा॒-धात॒राय॑न्तु स॒र्वत॒-स्स्वाहैक॑-ञ्च) (अ. 4)
अनुवाकं 5
भू-र्भुव॒-स्सुव॒-रिति॒ वा ए॒ता स्ति॒स्रो व्याहृ॑तयः ॥
तासा॑मुहस्मै॒ ता-ञ्च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ ॥ त-द्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ ॥ भूरिति॒ वा अ॒यं-लोँ॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒-रित्य॒सौ लो॒कः ॥ 10 ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते ॥ भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ं॑षि॒ मही॑यन्ते ॥ भू-रिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि ।
सुव॒ रिति॒ यजूग्ं॑षि ॥ 11 ॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते ॥ भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्न᳚म् । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते ॥ ता वा ए॒ता-श्चत॑स्र श्चतु॒र्धा । चत॑स्र-श्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ ।
स वे॑द॒ ब्रह्म॑ । सर्वे᳚-ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ 12 ॥
(अ॒सौ लो॒को - यजूग्ं॑षि॒ - वेद॒ द्वे च॑) (अ. 5)
अनुवाकं 6
स य ए॒षो᳚-ऽन्तर्-हृ॑दय आका॒शः । तस्मि॑न्न॒य-म्पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ ॥ अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लम्ब॑ते ।
से᳚न्द्र यो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्​षकपा॒ले ॥ भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ 13 ॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पति᳚म् । वाक्प॑ति॒ श्चक्षु॑ष्पतिः । श्रोत्र॑पति र्वि॒ज्ञान॑पतिः ।
ए॒त-त्ततो॑ भवति । आ॒का॒श श॑रीर॒-म्ब्रह्म॑ ।
स॒त्यात्म॑ प्रा॒णारा॑म॒-म्मन॑ आनन्दम् । शान्ति॑ समृद्ध-म॒मृत᳚म् ॥
इति॑ प्राचीन यो॒ग्योपा᳚स्व ॥ 14 ॥
(वा॒या-व॒मृत॒ मेक॑-ञ्च) (अ. 6)
अनुवाकं 7
पृ॒थि॒व्य॑न्तरि॑क्ष॒-न्द्यौ-र्दिशो॑-ऽवान्तरदि॒शाः । अ॒ग्नि-र्वा॒यु-रा॑दि॒त्य-श्च॒न्द्रमा॒ नक्ष॑त्राणि ।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् ॥ अथाद्ध्या॒त्मम् । प्रा॒णो व्या॒नो॑-ऽपा॒न उ॑दा॒न-स्स॑मा॒नः । चक्षु॒-श्श्रोत्र॒-म्मनो॒ वा-क्त्वक् ।
चर्म॑ मा॒ग्ं॒ सग्ग्​स्नावास्थि॑ म॒ज्जा ॥
ए॒त द॑धिवि॒धाय॒र्॒षि॒ रवो॑चत् ।
पाङ्क्तं॒-वाँ इ॒दग्ं सर्व᳚म् ।
पाङ्क्त॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ 15 ॥
(सर्व॒मेक॑-ञ्च) (अ. 7)
अनुवाकं 8
ओ-मिति॒ ब्रह्म॑ ॥ ओ-मिती॒दग्ं सर्व᳚म् ॥
ओमित्ये॒त-द॑नुकृति हस्म॒ वा अ॒प्यो श्रा॑व॒येत्या-श्रा॑वयन्ति । ओ-मिति॒ सामा॑नि गायन्ति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसन्ति । ओमित्य॑द्ध्व॒र्युः प्र॑तिग॒र-म्प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति ।
ओमित्य॑ग्निहो॒त्र-मनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ ।
ब्रह्मै॒वो-पा᳚प्नोति ॥ 16 ॥
(ओ-न्दश॑) (अ. 8)
अनुवाकं 9
ऋत-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
सत्य-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
तपश्च स्वाद्ध्याय प्रव॑चने॒ च ।
दमश्च स्वाद्ध्याय प्रव॑चने॒ च ।
शमश्च स्वाद्ध्याय प्रव॑चने॒ च ।
अग्नयश्च स्वाद्ध्याय प्रव॑चने॒ च ।
अग्निहोत्र-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
अतिथयश्च स्वाद्ध्याय प्रव॑चने॒ च ।
मानुष-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
प्रजा च स्वाद्ध्याय प्रव॑चने॒ च ।
प्रजनश्च स्वाद्ध्याय प्रव॑चने॒ च ।
प्रजातिश्च स्वाद्ध्याय प्रव॑चने॒ च ॥
सत्यमिति सत्यवचा॑ राथी॒ तरः ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।
स्वाद्ध्याय प्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ 17 ॥
(प्रजा च स्वाद्ध्यायप्रव॑चने॒ च षट्च॑) (अ. 9)
अनुवाकं 10
अ॒हं-वृँ॒क्षस्य॒ रेरि॑वा ।
की॒र्तिः पृ॒ष्ठ-ङ्गि॒रेरि॑व ।
ऊ॒र्ध्व प॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्को-र्वेदा॑नुव॒चनम् ॥ 18 ॥
(अ॒हग्ं षट्) (अ. 10)
अनुवाकं 11
वेदमनूच्या- ऽचार्योन्तेवासिन-म॑नुशा॒स्ति ॥
सत्यं॒-वँद । धर्म॒-ञ्चर ॥ स्वाद्ध्याया᳚न्मा प्र॒मदः । आचार्याय प्रिय-न्धनमाहृत्य प्रजातन्तु-म्मा व्य॑वच्छे॒थ्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् ।
भूत्यै न प्रम॑दित॒व्यम् । स्वाद्ध्याय प्रवचनाभ्या-न्न प्रम॑दित॒व्यम् ॥ 19 ॥
देवपितृकार्याभ्या-न्न प्रम॑दित॒व्यम् ॥
मातृ॑देवो॒ भव । पितृ॑देवो॒ भव ।
आचार्य॑ देवो॒ भव । अतिथि॑देवो॒ भव ॥
यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि ।
नो इ॑तरा॒णि ॥ यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ 20 ॥
नो इ॑तरा॒णि ॥ ये के चास्म-च्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषा-न्त्वया-ऽऽसने न प्रश्व॑सित॒व्यम् ॥ श्रद्ध॑या दे॒यम् । अश्रद्ध॑या-ऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । सं​विँ॑दा दे॒यम् ॥
अथ यदि ते कर्मविचिकिथ्सा वा वृत्त विचिकि॑थ्सा वा॒ स्यात् ॥ 21 ॥
ये तत्र ब्राह्मणा᳚-स्सम्म॒र॒.शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामा॒-स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः ॥ अथाभ्या᳚ख्याते॒षु । ये तत्र ब्राह्मणा᳚-स्सम्म॒र्॒शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑ कामा॒-स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् ॥ 22 ॥
तथा तेषु॑ वर्ते॒थाः ॥ एष॑ आदे॒शः ।
एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एव मुपा॑सित॒व्यम् । एव मुचैत॑दुपा॒स्यम् ॥ 23 ॥
(स्वाद्ध्यायप्रवचनाभ्या-न्न प्रम॑दित॒व्यम् - तानित्वयो॑पास्या॒नि - स्यात् - तेषु॑ वर्ते॒रन्थ् - +स॒प्त च॑) (अ. 11)
अनुवाकं 12
शन्नो॑ मि॒त्र-श्शं-वँरु॑णः । शन्नो॑ भवत्वर्य॒मा ।
शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑ रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्ष॒-म्ब्रह्मा वा॑दिषम् ।
ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् ।
आवी᳚द्व॒क्तार᳚म् ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 24 ॥
(स॒त्यम॑वादिष॒-म्पञ्च॑ च) (अ. 12)
इति शीक्षावल्ली समाप्ता ॥ ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके सप्तमः प्रपाठक-स्समाप्तः ॥

Explore More