Lord Ketu

केतु कवचम्

(Ketu Kavacham)

From Brahmanda Purana

Ketu Kavacham is a powerful protective hymn dedicated to Ketu, the descending lunar node in Vedic astrology. Derived from the Brahmanda Purana, this stotra invokes the blessings of the deity who is described as having a variegated appearance and a flag-like form. Chanting this Kavacham is believed to shield the devotee from the malefic effects of Ketu, alleviating spiritual disturbances, psychological anxiety, and obstacles caused by celestial imbalances. By reciting these sacred verses, practitioners seek divine protection, mental tranquility, and the grace of this powerful planet to navigate life's challenges with wisdom and resilience.

ध्यानं

केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ 1 ॥
। अथ केतु कवचम् ।
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ 2 ॥
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ 3 ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ 4 ॥
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥ 5 ॥
फलश्रुतिः
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ 6 ॥
॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥

Explore More