Brahman (The Absolute)

केन उपनिषद् - प्रथमः खण्डः

(Kena Upanishad - First Khanda)

From Samaveda (Talavakara Brahmana)

The Kena Upanishad is a seminal Vedantic text belonging to the Samaveda, exploring the nature of the Supreme Brahman. It famously begins by questioning the source of our cognitive faculties, ultimately revealing that true divinity transcends the limitations of the mind and senses. The first khanda serves as an inquiry into the ultimate reality that empowers the eyes, ears, and speech. Chanting or contemplating this Upanishad is considered highly auspicious for seekers, as it removes ignorance, sharpens intellectual insight, and facilitates the realization of the indestructible, eternal self, leading to ultimate spiritual liberation.

॥ अथ केनोपनिषत् ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षु-श्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व-म्ब्रह्मौपनिषद-म्मा-ऽह-म्ब्रह्म निराकुर्या-म्मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरण-म्मे-ऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
केनेषित-म्पतति प्रेषित-म्मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां-वाँचमिमां-वँदन्ति
चक्षु-श्श्रोत्र-ङ्क उ देवो युनक्ति ॥ 1 ॥
श्रोत्रस्य श्रोत्र-म्मनसो मनो यद्
वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ 2 ॥
न तत्र चक्षुर्गच्छति न वागच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ 3 ॥
अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां-येँ नस्तद्व्याचचक्षिरे ॥ 4 ॥
यद्वाचा-ऽनभ्युदितं-येँन वागभ्युद्यते ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 5 ॥
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 6 ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 7 ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 8 ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 9 ॥
॥ इति केनोपनिषदि प्रथमः खण्डः ॥

Explore More