Brahman

कठोपनिषद् - अध्याय 2, वल्ली 1

(Kathopanishad - Chapter 2, Valli 1)

From Vedas

This section of the Kathopanishad features the profound dialogue between the young seeker Nachiketa and Lord Yama. It explores the nature of the Supreme Self, contrasting the pursuit of external sensory pleasures with the inner realization of the soul. By teaching the path of self-restraint and spiritual discernment, these verses serve as a guide for those seeking immortality and eternal truth. Reciting or meditating on these verses helps practitioners detach from fleeting worldly desires, sharpen their internal focus, and attain profound clarity, leading to the ultimate realization of the undying, singular nature of the Atman.

अध्याय 2

वल्ली 1
पराञ्चिखानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्न् ॥1॥
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्।
अथ धीरा अमृतत्वं-विँदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥2॥
येन रूपं रस-ङ्गन्धं शब्दान्स्पर्​शांश्च मैथुनान्।
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ॥3॥
स्वप्नान्त-ञ्जागरितान्त-ञ्चोभौ येनानुपश्यति।
महान्तं-विँभुमात्मान-म्मत्वा धीरो न शोचति ॥4॥
य इम-म्मध्वदं-वेँद आत्मान-ञ्जीवमन्तिकात्।
ईशान-म्भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥5॥
यः पूर्व-न्तपसो जातमद्भ्यः पूर्वमजायत।
गुहा-म्प्रविश्य तिष्ठन्तं-योँ भूतेभिर्व्यपश्यत। एतद्वै तत् ॥6॥
या प्राणेन सम्भवत्यदितिर्देवतामयी।
गुहा-म्प्रविश्य तिष्ठन्तीं-याँ भूतेभिर्व्यजायत। एतद्वै तत् ॥7॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिवे ईड्यो जागृवद्भिर्​हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत् ॥8॥
यतश्चोदेति सूर्यो-ऽस्तं-यँत्र च गच्छति।
त-न्देवा-स्सर्वे-ऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत् ॥9॥
यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्यो-स्स मृत्युमाप्नोति य इह नानेव पश्यति ॥10॥
मनसैवेदमाप्तव्य-न्नेह नाना-ऽस्ति किञ्चन।
मृत्यो-स्स मृत्यु-ङ्गच्छति य इह नानेव पश्यति ॥11॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥12॥
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥13॥
यथोदक-न्दुर्गे वृष्ट-म्पर्वतेषु विधावति।
एव-न्धर्मान्पृथ-क्पश्यंस्तानेवानुविधावति ॥14॥
यथोदकं शुद्धे शुद्धमासिक्त-न्तादृगेव भवति।
एव-म्मुनेर्विजानत आत्मा भवति गौतम ॥15॥

Explore More