Lord Hanuman

हनुमान् नित्य पूजा विधानम्

(Hanuman Nitya Puja Vidhanam)

Traditional

Hanuman Nitya Puja Vidhanam is a comprehensive liturgical manual dedicated to the daily worship of Lord Hanuman, the embodiment of devotion, strength, and selfless service. This ritualistic text guides practitioners through the systematic steps of inviting, invoking, and honoring the deity through offerings and prayers. By performing this daily worship with sincerity, devotees seek to invoke the protection and grace of the Vanara deity. Chanting these verses is believed to cultivate mental fortitude, remove obstacles, alleviate fear, and bestow spiritual discipline, ultimately strengthening one's connection to the divine path of Bhakti.

आवश्यकानि वस्तूनि
- आसनं
- दीपः
- गन्धः
- कुङ्कुमं
- अक्षताः
- पुष्पाणि
- धूपः
- नैवेद्यं
- ताम्बूलं
- आचमनीयं
- पूजा पात्रं
- कलशः
- शङ्खः [optional]
- हनुमान् प्रतिमा वा चित्रपटः वा
पूर्वाङ्ग पूजा
श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।
शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥
प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः ।
अरुन्धतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।
आचमनं
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविन्दाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।
दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥
भूतोच्चाटनम्
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥
प्राणायामः
ओ-म्भूः । ओ-म्भुवः॑ । ओग्ं सुवः॑ । ओ-म्महः॑ । ओ-ञ्जनः॑ । ओ-न्तपः॑ । ओग्ं सत्यम् ।
ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
सङ्कल्पः
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वर प्रीत्यर्थं, मम/अस्माकं सहकुटुम्बस्य क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-अभय-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्ध्यर्थं, धैर्य-बल-बुद्धि-भक्ति-सिद्ध्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-फल-सिद्ध्यर्थं, श्रीहनुमत्-प्रीत्यर्थं, यावच्छक्ति ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥
तदङ्ग कलशाराधनं करिष्ये ॥
कलशाराधनम्
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ॥
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
आयान्तु देवपूजार्थं मम दुरितक्षयकारकाः ।
कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥
शङ्खपूजा
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य आज्ञया ।
शङ्खे तिष्ठन्तु विप्रेन्द्राः तस्मात् शङ्खं प्रपूजयेत् ॥
ॐ शङ्खाय नमः ।
ॐ धवलाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥
घण्टानादः
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
ॐ घण्टादेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥
श्री महागणपति पूजा
ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गन्धं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । ताम्बूलं समर्पयामि ।
नीराजनं समर्पयामि । मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
षोडशोपचार पूजा
हनुमान् ध्यानम्
अतुलित बलधामं स्वर्ण शैलाभ देहम् ।
दनुजवन कृशानुं ज्ञानिनामग्रगण्यम् ॥
सकलगुणनिधानं वानराणामधीशम् ।
रघुपतिप्रियभक्तं वातजातं नमामि ॥
मनोजवं मारुत तुल्यवेगम् ।
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ॥
वातात्मजं वानर यूथमुख्यम् ।
श्रीरामदूतं शिरसा नमामि ॥
गोष्पदीकृतसमुद्रं मशकीकृत राक्षसम् ।
रामायण महामाला रत्नं वन्देऽनिलात्मजम् ॥
ॐ श्रीहनुमते नमः ।
ध्यायामि । ध्यानं समर्पयामि ॥
आवाहनम्
रामचन्द्र पदाम्भोज युगल स्थिरमासनम् ।
आवाहयामि वरदं हनूमन्तमभीष्टदम् ॥
ॐ श्रीहनुमते नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥
आसनम्
नवरत्ननिबद्धाढ्यं चतुरश्रं सुशोभनम् ।
सौवर्णमासनं तुभ्यं दास्यामि कपिनायक ॥
ॐ श्रीहनुमते नमः ।
आसनं समर्पयामि ॥
पाद्यम्
सुवर्णकलशानीतं गङ्गादि सलिलैर्युतम् ।
पादयोः पाद्यमनघं प्रतिगृह्य प्रसीद मे ॥
ॐ श्रीहनुमते नमः ।
पादयोः पाद्यं समर्पयामि ॥
अर्घ्यम्
लक्ष्मण प्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ॥
ॐ श्रीहनुमते नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥
आचमनीयम्
वालाग्रसेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥
ॐ श्रीहनुमते नमः ।
मुखे आचमनीयं समर्पयामि ॥
स्नानम्
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ॐ श्रीहनुमते नमः ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानन्तरं आचमनीयं समर्पयामि ॥
वस्त्रम्
पीताम्बरमिदं तुभ्यं तप्तहाटक सन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥
उत्तरीयं तु दास्यामि संसारोत्तार कारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥
ॐ श्रीहनुमते नमः ।
वस्त्रं समर्पयामि ॥
यज्ञोपवीतम्
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण रामकिङ्कर ॥
ॐ श्रीहनुमते नमः ।
यज्ञोपवीतं समर्पयामि ॥
गन्धम्
कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥
ॐ श्रीहनुमते नमः ।
गन्धं समर्पयामि ॥
अर्चन
अक्षतान् धवलान् दिव्यान् पुष्पाणि च सुगन्धीनि ।
भक्त्या दत्तानि गृह्यन्तां सर्वदेवाः प्रसीदत ॥
अङ्ग पूजा
ॐ मारुतये नमः - पादौ पूजयामि ।
ॐ सुग्रीवसखाय नमः - गुल्फौ पूजयामि ।
ॐ अङ्गदमित्राय नमः - जङ्घे पूजयामि ।
ॐ रामदासाय नमः - ऊरू पूजयामि ।
ॐ अक्षघ्नाय नमः - कटिं पूजयामि ।
ॐ लङ्कादहनाय नमः - वालं पूजयामि ।
ॐ सञ्जीवननगाहर्ते नमः - स्कन्धौ पूजयामि ।
ॐ सौमित्रिप्राणदात्रे नमः - वक्षःस्थलं पूजयामि ।
ॐ कुण्ठितदशकण्ठाय नमः - कण्ठं पूजयामि ।
ॐ रामाभिषेककारिणे नमः - हस्तौ पूजयामि ।
ॐ मन्त्ररचितरामायणाय नमः - वक्त्रं पूजयामि ।
ॐ प्रसन्नवदनाय नमः - वदनं पूजयामि ।
ॐ पिङ्गलनेत्राय नमः - नेत्रे पूजयामि ।
ॐ श्रुतिपरायणाय नमः - श्रोत्रे पूजयामि ।
ॐ ऊर्ध्वपुण्ड्रधारिणे नमः - ललाटं पूजयामि ।
ॐ मणिकण्ठमालिकाय नमः - शिरः पूजयामि ।
ॐ सर्वाभीष्टप्रदाय नमः - सर्वाण्यङ्गानि पूजयामि ॥
[Recite the hanumAn aShTOttara Sata nAmAvaLI, or at least a few known names of Hanuman. Offer flowers or akshatas with each name.]
हनुमान् अष्टोत्तर शत नामावली>
अथवा हनुमान् नामावली पठनम् ॥
ॐ श्रीहनुमते नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥
धूपम्
दिव्यं सगुग्गुलं रम्यं दशाङ्गेन समन्वितम् ।
गृहाण मारुते धूपं सुप्रियं घ्राणतत्परम् ॥
ॐ श्रीहनुमते नमः ।
धूपमाघ्रापयामि ॥
दीपम्
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥
ॐ श्रीहनुमते नमः ।
दीपं दर्शयामि ॥
नैवेद्यम्
मणिपात्र सहस्राढ्यं दिव्यान्नं घृतपायसम् ।
आपूपलड्डूकोपेतं मधुराम्रफलैर्युतम् ॥
हिङ्गू जीरक संयुक्तं षड्रसोपेतमुत्तमम् ।
नैवेद्यमर्पयाम्यद्य गृहाणेदं कपीश्वर ॥
ओ-म्भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥
ॐ श्रीहनुमते नमः ।
नैवेद्यं समर्पयामि ॥
ताम्बूलम्
नागवल्लीदलोपेतं क्रमुकैर्मधुरैर्युतम् ।
ताम्बूलमर्पयाम्यद्य कर्पूरादि सुवासितम् ॥
ॐ श्रीहनुमते नमः ।
ताम्बूलं समर्पयामि ॥
नीराजनम्
आरार्तिकं तमोहारि शतसूर्य समप्रभम् ।
अर्पयामि तव प्रीत्यै अन्धकार निषूदनम् ॥
ॐ श्रीहनुमते नमः ।
नीराजनं समर्पयामि ॥
मन्त्रपुष्पम्
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
ॐ श्रीहनुमते नमः ।
मन्त्रपुष्पं समर्पयामि ॥
प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष कपीश्वर ॥
ॐ श्रीहनुमते नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
नमस्कारः
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥
ॐ श्रीहनुमते नमः ।
नमस्कारान् समर्पयामि ॥
सर्वोपचाराः
ॐ श्रीहनुमते नमः ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥
स्तोत्र पठनम्
हनुमान् चालीसा>
हनुमत्-पञ्चरत्नम्>
क्षमाप्रार्थना
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व कपिनायक ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व वानरोत्तम ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीहनुमान् सुप्रीतः सुप्रसन्नः वरदो भवतु ॥
उद्वासनम्
ॐ श्रीहनुमते नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥
प्रसाद ग्रहणम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥
श्रीहनुमान् प्रसादं शिरसा गृह्णामि ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

Explore More