Lord Krishna

गोपाल सहस्र नाम स्तोत्रम्

(Gopala Sahasra Nama Stotram)

From Gautamiya Tantra

Gopala Sahasra Nama Stotram is a powerful devotional hymn that lists one thousand sacred names of Lord Krishna, the protector of the universe. Extracted from the Gautamiya Tantra, it depicts a divine conversation between Lord Shiva and Goddess Parvati, where Shiva reveals the greatness of these names. Chanting this stotra is believed to bestow inner peace, spiritual liberation, and material prosperity upon the devotee. It serves as a potent meditative tool to focus the mind on the infinite, playful, and compassionate nature of Lord Krishna, ultimately fostering deep devotion and removing worldly obstacles.

कैलासशिखरे रम्ये गौरी पप्रच्छ शङ्करम् ।
ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ 1 ॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ 2 ॥
आश्चर्यमिदमत्यन्तं जायते मम शङ्कर ।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ 3 ॥
श्रीमहादेव उवाच-
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ 4 ॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 5 ॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ 6 ॥
धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ 7 ॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥ 8 ॥
संसारसागरोत्तारकारणाय नृणां सदा ।
श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ 9 ॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ 10 ॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
बृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ 11 ॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ 12 ॥
श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदा नन्दगेहिनी ॥ 13 ॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरः ॥ 14 ॥
जातोऽवन्यां च मुदितो मुरलीवाचनेच्छया ।
श्रिया सार्धं वचः कृत्वा ततो जातो महीतले ॥ 15 ॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वन्द्यं चिन्तयामि सनातनम् ॥ 16 ॥
गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ 17 ॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ 18 ॥
तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ 19 ॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥ 20 ॥
निरञ्जनात्समुत्पन्नं मायातीतं जगन्मयम् ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ 21 ॥
ततो नारदतस्सर्वं विरला वैष्णवास्तथा ।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ 22 ॥
शठाय कृपणायाथ डाम्भिकाय सुरेश्वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ 23 ॥
ॐ अस्य श्रीगोपालसहस्रनामस्तोत्र महामन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीगोपालो देवता, कामो बीजं, माया शक्तिः, चन्द्रः कीलकं, श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।
ॐ ऐं क्लीं बीजं, श्रीं ह्रीं शक्तिः, श्री बृन्दावननिवासः कीलकं, श्रीराधाप्रियं परं ब्रह्मेति मन्त्रः, धर्मादि चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
न्यासः ।
ॐ नारद ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्रीगोपालदेवतायै नमः हृदये ।
क्लीं कीलकाय नमः नाभौ ।
ह्रीं शक्तये नमः गुह्ये ।
श्रीं कीलकाय नमः फालयोः ।
ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा
इति मूलमन्त्रः । करन्यासः । ॐ क्लां अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ क्लूं मध्यमाभ्यां नमः । ॐ क्लैं अनामिकाभ्यां नमः । ॐ क्लौं कनिष्ठिकाभ्यां नमः । ॐ क्लः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः । ॐ क्लां हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ क्लूं शिखायै वषट् । ॐ क्लैं कवचाय हुम् । ॐ क्लौं नेत्रत्रयाय वौषट् । ॐ क्लः अस्त्राय फट् । मूलमन्त्रन्यासः । क्लीं अङ्गुष्ठाभ्यां नमः । कृष्णाय तर्जनीभ्यां नमः । गोविन्दाय मध्यमाभ्यां नमः । गोपीजन अनामिकाभ्यां नमः । वल्लभाय कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः । क्लीं हृदयाय नमः । कृष्णाय शिरसे स्वाहा । गोविन्दाय शिखायै वषट् । गोपीजन कवचाय हुम् । वल्लभाय नेत्रत्रयाय वौषट् । स्वाहा अस्त्राय फट् । ध्यानम् । फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ 1 ॥ कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ 2 ॥ ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालो वेदवेदाङ्गपारगः ॥ 1 ॥ कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः । गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ 2 ॥ आदिकर्ता महाकर्ता महाकालः प्रतापवान् । जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ 3 ॥ मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ 4 ॥ गोकुलेशो महाचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ 5 ॥ दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः । गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥ 6 ॥ गोपस्वामी गोकुलेन्द्रः गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ 7 ॥ सर्वमङ्गलदाता च सर्वकामवरप्रदः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ 8 ॥ गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ 9 ॥ मालाकारः कृपाकारः कोकिलस्वरभूषणः । रामो नीलाम्बरो देही हली द्विविदमर्दनः ॥ 10 ॥ सहस्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ 11 ॥ कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो धरापतिरुदारधीः ॥ 12 ॥ श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा । बृन्दापतिः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ 13 ॥ रेवतीरमणो रामः प्रियश्चञ्चललोचनः । रामायणशरीरश्च रामो रामः श्रियःपतिः ॥ 14 ॥ शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ 15 ॥ राधारतिसुखोपेतो राधामोहनतत्परः । राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ 16 ॥ राधालिङ्गनसम्मोदो राधानर्तनकौतुकः । राधासञ्जातसम्प्रीतो राधाकामफलप्रदः ॥ 17 ॥ बृन्दापतिः कोकनिधिः कोकशोकविनाशनः । चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥ 18 ॥ रामो दाशरथी रामो भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ 19 ॥ वृषभानुभवो भावी काश्यपिः करुणानिधिः । कोलाहलो हलो हाली हली हलधरप्रियः ॥ 20 ॥ राधामुखाब्जमार्ताण्डो भास्करो रविजो विधुः । विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ 21 ॥ रोहिणीहृदयानन्दी वसुदेवात्मजो बलिः । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ 22 ॥ नागो जवाम्भो विरुदो वीरहा वरदो बली । गोपदो विजयी विद्वान् शिपिविष्टः सनातनः ॥ 23 ॥ परशुरामवचोग्राही वरग्राही सृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ 24 ॥ वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥ 25 ॥ यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥ 26 ॥ लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशकः । वामनो वामनीभूतो वमनो वमनारुहः ॥ 27 ॥ यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः । उलूखली महामानो दामबद्धाह्वयी शमी ॥ 28 ॥ भक्तानुकारी भगवान् केशवोऽचलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥ 29 ॥ अघासुरविघाती च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान् कंसमृत्युर्महामुखी ॥ 30 ॥ अश्वमेधो वाजपेयो गोमेधो नरमेधवान् । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ 31 ॥ रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ 32 ॥ कमली कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ 33 ॥ सौभाग्याधिकचित्तश्च महामायी मदोत्कटः । ताटकारिः सुरत्राता मारीचक्षोभकारकः ॥ 34 ॥ विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ 35 ॥ सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासवान् ॥ 36 ॥ चन्द्रावलिपतिः कूलः केशिकंसवधोऽमरः । माधवो मधुहा माध्वी माध्वीको माधवी विभुः ॥ 37 ॥ मुञ्जाटवीगाहमानो धेनुकारिर्दशात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ 38 ॥ तथा तालवनोद्देशी भाण्डीरवनशङ्करः । तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ 39 ॥ राधाप्राणसमो राधावदनाब्जमधूत्कटः । गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ 40 ॥ क्रीडाकमलसन्दोहो गोपिकाप्रीतिरञ्जनः । रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ 41 ॥ कामः कामारिभक्तश्च पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ 42 ॥ अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ 43 ॥ पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रहिः ॥ 44 ॥ गणाश्रयो गणाध्यक्षो क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ 45 ॥ भ्रमरः कुन्तली कुन्तीसुतरक्षी महामनाः । यमुनावरदाता च काश्यपस्य वरप्रदः ॥ 46 ॥ शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ 47 ॥ फाल्गुणः फल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ 48 ॥ कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः । अङ्कुशो भूसुरो भावो भामको भ्रामको हरिः ॥ 49 ॥ सरलः शाश्वतो वीरो यदुवंशशिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ 50 ॥ महाधनो महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ 51 ॥ सूरः सूर्यो मृकण्डुश्च भास्वरो विश्वपूजितः । रविस्तमोहा वह्निश्च बाडबो बडबानलः ॥ 52 ॥ दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महीनाथो बृन्दानाथोऽवरोधकः ॥ 53 ॥ प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोमतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ 54 ॥ कावेरी नर्मदा तापी गण्डकी सरयू रजः । राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ 55 ॥ सुधामयोऽमृतमयो योगिनां वल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ 56 ॥ वंशी वंशधरो लोको विलोको मोहनाशनः । रवरावो रवो रावो वलो वालो वलाहकः ॥ 57 ॥ शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः । पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ 58 ॥ मोहिनीमोहनो मायी महामायो महासुखी । वृषो वृषाकपिः कालः कालीदमनकारकः ॥ 59 ॥ कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः । कोमलो वारुणी राजा जलजो जलधारकः ॥ 60 ॥ हारकः सर्वपापघ्नः परमेष्ठी पितामहः । खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ 61 ॥ द्वादशारण्यसम्भोगी शेषनागफणालयः । कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥ 62 ॥ हरिर्हरो नरो नारो नरोत्तम इषुप्रियः । गोपालचित्तहर्ता च कर्ता संसारतारकः ॥ 63 ॥ आदिदेवो महादेवो गौरीगुरुरनाश्रयः । साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ 64 ॥ रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः । वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥ 65 ॥ स्यमन्तकमणिप्राज्ञः विज्ञो विघ्नविघातकः । गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः ॥ 66 ॥ वार्धन्यो वर्धनो वर्धी वर्धिष्णस्तु सुखप्रियः । वर्धितो वर्धको वृद्धो बृन्दारकजनप्रियः ॥ 67 ॥ गोपालरमणीभर्ता साम्बकुष्ठविनाशनः । रुक्मिणीहरणप्रेमा प्रेमी चन्द्रावलीपतिः ॥ 68 ॥ श्रीकर्ता विश्वभर्ता च नारायण नरो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ 69 ॥ व्यासो नारायणो दिव्यो भव्यो भावुकधारकः । श्वःश्रेयसं शिवं भद्रं भावुकं भवुकं शुभम् ॥ 70 ॥ शुभात्मकः शुभः शास्ता प्रशस्तो मेघनादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ 71 ॥ कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः । कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ 72 ॥ नन्दो नन्दी महानन्दी मादी मादनकः किली । मीली हिली गिली गोली गोलो गोलालयो गुली ॥ 73 ॥ गुग्गुली मारकी शाखी वटः पिप्पलकः कृती । म्लेच्छहा कालहर्ता च यशोदा यश एव च ॥ 74 ॥ अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः । हंसो नारायणो नीलो लीनो भक्तिपरायणः ॥ 75 ॥ जानकीवल्लभो रामो विरामो विषनाशनः । सिंहभानुर्महाभानु-र्वीरभानुर्महोदधिः ॥ 76 ॥ समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ 77 ॥ सदारामः कृपारामो महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ 78 ॥ कमलाश्वतरो रामो रामायणप्रवर्तकः । द्यौर्दिवो दिवसो दिव्यो भव्यो भागी भयापहः ॥ 79 ॥ पार्वतीभाग्यसहितो भर्ता लक्ष्मीसहायवान् । [विलासवान्] विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ 80 ॥ सुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः । यमो यमारिर्यमनो यमी यामविघातकः ॥ 81 ॥ वंशुली पांशुली पांसुः पाण्डुरर्जुनवल्लभः । ललिता चन्द्रिकामाला माली मालाम्बुजाश्रयः ॥ 82 ॥ अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिप्रभुः । मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ 83 ॥ बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः । अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ 84 ॥ चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः । श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ 85 ॥ श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः । वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ 86 ॥ नारायणः परं धाम देवदेवो महेश्वरः । चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ 87 ॥ भगवान् सर्वभूतेशो गोपालः सर्वपालकः । अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ 88 ॥ निराधारो निराकारो निराभासो निराश्रयः । पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ 89 ॥ क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः । विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ 90 ॥ देवकीगर्भसम्भूतो यशोदावत्सलो हरिः । शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ 91 ॥ अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः । निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ 92 ॥ कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः । हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ 93 ॥ नन्दगोपकुमारार्यो नवनीताशनो विभुः । पुराणः पुरुषश्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ 94 ॥ अनिरुद्धश्चक्रधरः शार्ङ्गपाणिश्चतुर्भुजः । गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ 95 ॥ बृन्दावनचरः शौरिर्वेणुवाद्यविशारदः । तृणावर्तान्तको भीमसाहसो बहुविक्रमः ॥ 96 ॥ शकटासुरसंहारी बकासुरविनाशनः । धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ 97 ॥ पितामहो गुरुस्साक्षी प्रत्यगात्मा सदाशिवः । अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ 98 ॥ धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः । अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ 99 ॥ क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः । धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ 100 ॥ लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः । कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥ 101 ॥ मन्दस्मिततनुर्गोपगोपिकापरिवेष्टितः । फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥ 102 ॥ इन्दीवरदलश्यामो बर्हिबर्हावतंसकः । मुरलीनिनदाह्लादो दिव्यमालाम्बरावृतः ॥ 103 ॥ सुकपोलयुगः सुभ्रूयुगलः सुललाटकम् । कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ 104 ॥ पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः । कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥ 105 ॥ किरीटकुण्डलधरः कटकाङ्गदमण्डितः । मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ 106 ॥ मञ्जीररञ्जितपदः सर्वाभरणभूषितः । विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ 107 ॥ गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः । समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ 108 ॥ यमुनातीरसञ्चारी राधामन्मथवैभवः । गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ 109 ॥ शृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् । सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ 110 ॥ नरकासुरसंहारी मुरारिर्वैरिमर्दनः । आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ 111 ॥ जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः । पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥ 112 ॥ रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ 113 ॥ सुधाकरकुले जातोऽनन्तः प्रबलविक्रमः । सर्वसौभाग्यसम्पन्नो द्वारकापट्टणस्थितः ॥ 114 ॥ भद्रासूर्यसुतानाथो लीलामानुषविग्रहः । सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ 115 ॥ वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः । गोवर्धनधरो नाथः सर्वजीवदयापरः ॥ 116 ॥ मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः । सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ 117 ॥ षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः । महानुभावः कैवल्यदायको लोकनायकः ॥ 118 ॥ आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः । असमानः समस्तात्मा शरणागतवत्सलः ॥ 119 ॥ उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् । गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ 120 ॥ विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः । सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ 121 ॥ आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः । कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ 122 ॥ भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः । दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ 123 ॥ भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः । कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ 124 ॥ नारसिंहो महावीरः स्तम्भजातो महाबलः । प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ 125 ॥ उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः । गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ 126 ॥ शेषपर्यङ्कशयनो वैनतेयरथो जयी । अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ 127 ॥ योगीश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः । योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ 128 ॥ नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः । सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ 129 ॥ देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः । सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ 130 ॥ तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः । ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ 131 ॥ श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 132 ॥ समस्तभुवनाधारः समस्तप्राणरक्षकः । समस्तस्सर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ 133 ॥ नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलम् । व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ 134 ॥ पूर्णानन्दघनीभूतो गोपवेषधरो हरिः । कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ 135 ॥ गोपाङ्गनावृतोऽनन्तो बृन्दावनसमाश्रयः । वेणुनादरतः श्रेष्ठो देवानां हितकारकः ॥ 136 ॥ जलक्रीडासमासक्तो नवनीतस्य तस्करः । गोपालकामिनीजारश्चोरजारशिखामणिः ॥ 137 ॥ परञ्ज्योतिः पराकाशः परावासः परिस्फुटः । अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ 138 ॥ सप्तकोटिमहामन्त्रशेखरो देवशेखरः । विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ 139 ॥ भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः । भक्तदारिद्र्यशमनो भक्तानां प्रीतिदायकः ॥ 140 ॥ भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः । भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तकः ॥ 141 ॥ अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ 142 ॥ [इति श्रीराधिकानाथ नाम्नां साहस्रमीरितम् । ] स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥ 1 ॥ वैष्णवानां प्रियकरं महादारिद्र्यनाशनम् । ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ 2 ॥ परद्रव्यापहरणं परद्वेषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ 3 ॥ सहस्रनामपठनात्सर्वे नश्यन्ति तत्क्षणात् । महादारिद्र्ययुक्तो वै वैष्णवो विष्णुभक्तिमान् ॥ 4 ॥ कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं क्रमात् । पीताम्बरधरो धीमान् सुगन्धी पुष्पचन्दनैः ॥ 5 ॥ पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च । राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ 6 ॥ शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् । चैत्रे कृष्णे च शुक्ले च कुहूसङ्क्रान्तिवासरे ॥ 7 ॥ पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् । तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ 8 ॥ रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ 9 ॥ पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते । महानिशायां सततं वैष्णवो यः पठेत्सदा ॥ 10 ॥ देशान्तरगता लक्ष्मीः समायाति न संशयः । त्रैलोक्ये तु महादेवि सुन्दर्यः काममोहिताः ॥ 11 ॥ मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ 12 ॥ गर्भिणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् । राजानो वशतां यान्ति किं पुनः क्षुद्रमानुषाः ॥ 13 ॥ सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये । धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ 14 ॥ वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा । कदम्बपादपतले श्रीगोपालस्य सन्निधौ ॥ 15 ॥ यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् । कृष्णेनोक्तं राधिकायै तया प्रोक्तं पुरा शिवे ॥ 16 ॥ नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया तव वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ 17 ॥ गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन । शठाय पापिने चैव लम्पटाय विशेषतः ॥ 18 ॥ न दातव्यं न दातव्यं न दातव्यं कदाचन । देयं शान्ताय शिष्याय विष्णुभक्तिरताय च ॥ 19 ॥ गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च । अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ 20 ॥ मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् । यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ 21 ॥ एकादश्यां नरः स्नात्वा सुगन्धद्रव्यतैलकैः । आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ 22 ॥ ततः प्रारम्भकर्तासौ सर्वं प्राप्नोति मानवः । शतावृत्त सहस्रं च यः पठेद्वैष्णवो जनः ॥ 23 ॥ श्रीबृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् । यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ 24 ॥ न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् । सर्पादिभूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ 25 ॥ श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा । यद्गृहे च सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ 26 ॥ इति श्रीसम्मोहनतन्त्रे हरगौरीसंवादे श्रीगोपाल सहस्रनामस्तोत्रम् ।

Explore More