Lord Chandra

चन्द्र कवचम्

(Chandra Kavacham)

From Puranic Tradition

Chandra Kavacham is a sacred devotional hymn dedicated to Lord Chandra, the Vedic deity of the Moon. Often found in Puranic texts, this protective armor is invoked to mitigate the malefic effects of a weak or afflicted Moon in one's astrological chart. By chanting this Kavacham, devotees seek the blessings of the Moon God for emotional balance, mental clarity, and improved intuition. Regular recitation is believed to shield the practitioner from negativity, foster peace of mind, and promote overall physical and mental well-being, aligning the devotee with the cooling and nurturing vibrations of the lunar energy.

अस्य श्री चन्द्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छन्दः । श्री चन्द्रो देवता । चन्द्र प्रीत्यर्थे जपे विनियोगः ॥
ध्यानं
समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥
अथ चन्द्र कवचम्
शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ॥ 1 ॥
प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ।
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ॥ 2 ॥
करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ॥ 3 ॥
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ॥ 4 ॥
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः ॥ 5 ॥
फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 6 ॥
॥ इति श्रीचन्द्र कवचं सम्पूर्णम् ॥

Explore More